नरके तु चिरं मग्नाः पूर्वे ये च कुलद्वये । तदैव यांति ते स्वर्गं यदार्चंति मुदा हरिम्
विष्णुभक्तस्य ये दासा वैष्णवान्न भुजश्च ये । ते तु क्रतुभुजां वैश्य गतिं यांति निराकुलाः
प्रार्थर्यद्वैष्णवस्यान्नं प्रयत्नेन विचक्षणः । सर्वपापविशुद्ध्यर्थं तदभावे जलं पिबेत्
गोविंदेति जपन्मंत्रं कुत्रचिन्म्रियते यदि । स नरो न यमं पश्येत्तं च नेक्षामहे वयम्
सांगं समुद्रं सध्यानं सऋषिः छंददैवतम् । दीक्षयाविधिवन्मंत्रं जपेद्वै द्वादशाक्षरम्
अष्टाक्षरं च मंत्रेशं ये जपंति नरोत्तमाः । तान्दृष्ट्वा ब्रह्महा शुद्ध्यद्भ्राजते विष्णुवत्स्वयम्
शंखिनश्चक्रिणो भूत्वा ब्रह्माभ्यंतरगामिनः । वसंति वैष्णवे लोके विष्णुरूपेण ते नराः
हृदि सूर्ये जले वाथ प्रतिमा स्थंडिलेपि च । समभ्यर्च्य हरिं यांति नरास्तद्वैष्णवं पदम्
अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः । शालग्रामे मणौ चक्रे वज्रकीटविनिर्मिते
अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम् । सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम्
यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे । राजसूयसहस्रेण तेनेष्टं प्रतिवासरे
सदामनंति वेदांता ब्रह्मनिर्वाणमच्युतम् । तत्प्रसादो भवेन्नॄणां शालग्रामशिलार्चनात्
महाकाष्ठस्थितो वह्निर्मखस्थाने प्रकाशते । यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते
अपि पापसमाचाराः कर्म्मण्यनधिकारिणः । शालग्रामार्चका वैश्य नैव यांति यमालयम्
न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिः । शालग्रामशिलाचक्रे यथा स रमते सदा
अग्निहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा । येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे
शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः । विधिवत्पूजिता येन तस्य पुण्यं वदामि ते
कोटिद्वादशलिंगैस्तु पूजितैः स्वर्णपंकजैः । यत्स्याद्द्वादशकालेषु दिनेनैकेन तद्भवेत्
यः पुनः पूजयेद्भक्त्या शालग्रामशिला शतम् । उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते
कामैः क्रोधैः प्रलोभैश्च व्याप्तो यत्र नराधमः । सोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात्
यः पूजयेच्च गोविंदं शालग्रामे मुदा नरः । आभूतसंप्लवं यावन्न स प्रच्यवते दिवः
विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम् । मुक्तिं यांति नरा वैश्य शालग्रामशिलार्चनात्
नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् । न याति वैश्य पापोऽपि शालग्रामशिलार्चकः
दीक्षाविधान मंत्रज्ञो यश्चक्रे बलिमाहरेत् । गंगा गोदावरी रेवा नद्यो मुक्तिप्रदाश्च याः
निवसंति हिताः सर्वाः शालग्रामशिला जले । नैवेद्यैर्विविधैः पुष्पैर्धूपदीपैर्विलेपनैः
गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् । कुरुते मानवो यस्तु कलौ भक्तिपरायणः
कल्पकोटिसहस्राणि रमते सन्निधौ हरेः । लिंगैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः
शालग्रामशिलायास्तु ह्येकेनाह्ना हि तत्फलम् । सकृदभ्यर्चिते लिंगे शालग्रामशिलोद्भवे
मुक्तिं प्रयांति मनुजा नूनं सांख्येन वर्जिताः । शालग्रामशिलारूपी यत्र तिष्ठति केशवः
तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश । शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः