गंगांभसि प्रयत्नेन स्नातव्यं तेन मानवैः । प्रतिगृह निवृत्तो यः प्रतिग्रहक्षमोऽपि सन् । स द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि
गामुद्धरंति ये पंकाद्ये रक्षंति च रोगिणः । म्रियंते गोगृहे ये च तेषां नभसि तारकाः । यमलोकं न पश्यंति प्राणायामपरायणाः
अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः । दिवसे दिवसे वैश्य प्राणायामास्तु षोडश । अपि ब्रह्महणं साक्षात्पुनंत्यहरहः कृताः
तपांसि यानि तप्यंते व्रतानि नियमाश्च ये । गोसहस्रप्रदानं च प्राणायामस्तु तत्समः
अब्बिंदुं यः कुशाग्रेण मासेमासे नरः पिबेत् । संवत्सरशतं साग्रं प्राणायामस्तु तत्समः
पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् । प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः
मातृवत्परदारान्ये मन्यंते वै नरोत्तमाः । न ते यांति नरश्रेष्ठ कदाचिद्यम यातनाम्
मनसापि परेषां यः कलत्राणि न सेवते । सह लोकद्वये नास्ति तेन वैश्य धरा धृता
तस्माद्धर्म्मान्वितैस्त्याज्यं परदारोपसेवनम् । नयंति परदारास्तु नरकानेकविंशतिम्
लोभो न जायते येषां परदारेषु मानसे । ते यांति देवलोकं तु न यमं वैश्यसत्तम
शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयते । जितस्वर्गः स मंतव्यः पुरुषोऽक्रोधनो भुवि
मातरं पितरं पुत्र आराधयति देववत् । अप्राप्ते वार्द्धके काले न याति च यमालयम्
पितुश्चाधिकभावेन येऽर्चयंति गुरुं नराः । भवंत्यतिथयो लोके ब्रह्मणस्ते विशांवर
इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् । शीलभंगे च नारीणां यमलोकः सुदारुणः
शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात् । शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः
शूद्रस्य पाकयज्ञेन निषिद्धाचरणेन च । दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः
विचारयंति ये शास्त्रं वेदाभ्यासरताश्च ये । पुराणं संहितां ये च श्रावयंति पठंति च
व्याकुर्वंति स्मृतिर्ये च ये धर्मप्रतिबोधकाः । वेदांतेषु निषण्णा ये तैरियं जगती धृता
तत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः । गच्छंति ब्रह्मणो लोकं यत्र मोहो न विद्यते
ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम् । अपि वेदास्तमर्चंति भवबंधविदारणम्
श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तम । सम्मतं धर्मराजस्य सर्वलोकामृतप्रदम्
न यमं यमलोकं च न भूतान्घोरदर्शनान् । पश्यंति वैष्णवा नूनं सत्यं सत्यं मयोदितम्
प्राहास्मान्यमुना भ्राता सदैव हि पुनःपुनः । भवद्भिर्वैष्णवास्त्याज्या न ते स्युर्ममगोचराः
स्मरंति ये सकृद्भूताः प्रसंगेनापि केशवम् । ते विध्वस्ताखिलाघौघा यांति विष्णोः परं पदम्
दुराचारो दुष्कृतोऽपि सदाचाररतोऽपि यः । भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः
वैष्णवो यद्गृहे भुंक्ते येषां वैष्णवसंगतिः । तेऽपि वः परिवार्याः स्युस्तत्संगहतकिल्बिषाः
इत्थं वैश्यानुशास्त्यस्मान्देवो दंडधरः सदा । अतो नो वैष्णवा यांति राजधानीं यमस्य तु
विष्णुभक्तिं विना नॄणां पापिष्ठानां विशां वर । उपायो नास्ति नास्त्यन्यः संतर्तुं नरकांबुधिम्
श्वपाकमपि नेक्षेत लोकेष्टं वैश्य वैष्णवम् । वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम्
एतावता लमघनिर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्मनाम्नाम् । विक्रुश्य पुत्र मघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम्