समालोक्य तमायांतं भयेन प्रपलायितम् । अजायूथं परित्यज्य मया मरणभीरुणा
उपदुद्राव स द्वीपी पूर्ववैरमनुस्मरन् । अजा तु तत्समीपेऽगात्सत्वरं सरिदंतिके
तत्र सा भयमुत्सृज्य हित्वा वैरमनर्गला । अवतस्थे स च द्वीपी तूष्णीमासीदमत्सरः
तं तथाविधमालोक्य सा वक्तुमुपचक्रमे । द्वीपिन्नभीप्सितं भुंक्ष्व मांसमुद्धृत्य सादरः
नेयं भवति ते बुद्धिः कथं वैरमतिं त्यजः । इत्याकर्ण्य तदा वाक्यं प्राह द्वीपी विमत्सरः
स्थानेऽस्मिन्मे गतो द्वेषः क्षुत्पिपासा च निर्ययौ । न प्रार्थयामि तेन त्वां समीपे समुपस्थिताम्
सैवमुक्ता पुनः प्राह जाताहं निर्भया कथम् । किमत्र कारणं वेत्सि यदि मे वक्तुमर्हसि
एवमुक्तः पुनर्द्वीपी तामाहाजां न वेद्म्यहम् । पुरोगतमिमं प्रष्टुं महांतमिति निर्गतौ
ताभ्यामुभाभ्यामागत्य पृष्टोऽहं बहुविस्मयः । अहं च सहितस्ताभ्यामपृच्छं वानरेश्वरम्
मया पृष्टः स विप्रेदमब्रवीत्सादरं कपिः । शृणु वक्ष्याम्यजापाल वृत्तमत्र पुरातनम्
इदमायतनं पश्य पुरोवनगतं महत् । अत्र त्र्यंबकलिंगं हि द्रुहिणेन प्रतिष्ठितम्
सुकर्मानाम मेधावी पर्युपास्ते तपश्चरन् । वनपुष्पाण्यपाहृत्य सुरपूज्यं पुरोभवम्
संस्नाप्य सरिदंभोभिः केवलं कर्मणा वसन् । काले महति तस्यागादतिथिः कश्चिदंतिकम्
उपाहृत्य फलाहारं स तस्मै पर्यकल्पयत् । तेनातिथ्येन संप्रीतः सुकर्माणमभाषत
किमिदं कर्मणो मूलं फलं भुक्त्वा तु तिष्ठसि । गतानुगतया वृत्त्या किं वा केवलमीहसे
स एवमुक्तः प्रायेण प्रीतेनात्मविदा तदा । प्रत्युवाच वचः स्पष्टमात्मनो हितमुत्तमम्
विद्वन्न वेद्मि तत्वेन फलमेतस्य कर्मणः । बुभुत्सया परः शंभुः सेव्यते केवलं यया
फलमेतस्य सेवायाः परिपाकं कपर्दिनः । यन्मांसमनुगृह्णासि संस्पृश्यात्ममनोरथम् 6.176.
तस्यैवं सूनृतं वाक्यं श्रुत्वा प्रीतस्तपोधनः । द्वितीयमालिलेखाऽसौ गीताध्यायं शिलातले
आदिदेशाशु तं विप्रं पठनाभ्यसनाय च । फलिष्यत्यात्मनः स्वैरं परितस्ते मनोरथः
इत्युक्त्वांतर्दधे धीमान्पुरतस्तस्य पश्यतः । विस्मितस्तस्य चादेशात्सोऽन्वतिष्ठदनारतम्
ततः कालेन महता भावितात्मा प्रसन्नधीः । यत्रयत्र चचारासौ शांतं तत्तत्तपोवनम्
न द्वंद्वबाधा नैव क्षुत्पिपासा न च वा भयम् । तपसा तस्य जानीहि द्वितीयाध्यायजापिनः
मित्रवानुवाच। एवमुक्तश्च तेनाऽहं ख्यापयित्वा परां कथाम् । अनुज्ञातप्रसंनेन च्छागीव्याघ्रयुतोगमम्
गत्वा शिलातले पश्यमध्यायं लिखितं पठेत् । तस्यैवावर्त्तनादाप्तं तपसः पारमुत्तमम्
तेन त्वमपि कल्याण नित्यमाहर्तुमर्हसि । अध्यायं तेन ते मुक्तिरदूरस्था भविष्यति
देवशर्मा समादिष्टस्तेन मित्रवता स्वयम् । अभ्यर्च्य प्रणतो भूत्वा पुरंदरपुरं ययौ
तत्रात्मविदमासाद्य देवतायतने क्वचित् । वृत्तमेतन्निवेद्यादावध्यायमपठत्ततः
शिक्षितस्तेन पूतात्मा पठन्नध्यायमादरात् । द्वितीयमाससादोच्चैर्निरवद्यं परं पदम्
द्वितीयस्येदमाख्यानं कथितं शृणु सांप्रतम् । तृतीयस्याथ वक्ष्यामि माहात्म्यमपि चेंदिरे