न तीर्थैर्न तपोभिश्च कृतघ्नस्यास्ति निष्कृतिः । सहते यातनां घोरां स नरो नरके चिरम्
पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः । जितेंद्रियो जिताहारो न स याति यमालयम्
न तीर्थे पातकं कुर्यान्न च तीर्थोपजीवनम् । तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः
दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः । तीर्थे च दुर्जरं सर्वमेतत्किन्नरकं व्रजेत्
सकृद्गंगांभसि स्नातः पूतो गांगेयवारिणा । न नरो नरकं याति अपि पातकराशिकृत्
व्रतदानतपो यज्ञाः पवित्राणीतराणि च । गंगाबिंद्वभिषिक्तस्य न समा इति नः श्रुतम्
अन्यतीर्थसमां गंगां यो ब्रवीति नराधमः । स याति नरकं वैश्य दारुणं रौरवं महत्
धर्मद्रवं ह्यपां बीजं वैकुंठचरणच्युतम् । धृतं मूर्ध्नि महेशेन यद्गांगममलं जलम्
तद्ब्रह्मैव न संदेहो निर्गुणं प्रकृतेः परम् । तेन किं समतां गच्छेदपि ब्रह्मांडगोचरे
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि । नरो न नरकं याति किं तया सदृशं भवेत् । नान्येन दह्यते सद्यः क्रिया नरकदायिनी
गंगांभसि प्रयत्नेन स्नातव्यं तेन मानवैः । प्रतिगृह निवृत्तो यः प्रतिग्रहक्षमोऽपि सन् । स द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि
गामुद्धरंति ये पंकाद्ये रक्षंति च रोगिणः । म्रियंते गोगृहे ये च तेषां नभसि तारकाः । यमलोकं न पश्यंति प्राणायामपरायणाः
अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः । दिवसे दिवसे वैश्य प्राणायामास्तु षोडश । अपि ब्रह्महणं साक्षात्पुनंत्यहरहः कृताः
तपांसि यानि तप्यंते व्रतानि नियमाश्च ये । गोसहस्रप्रदानं च प्राणायामस्तु तत्समः
अब्बिंदुं यः कुशाग्रेण मासेमासे नरः पिबेत् । संवत्सरशतं साग्रं प्राणायामस्तु तत्समः
पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् । प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः
मातृवत्परदारान्ये मन्यंते वै नरोत्तमाः । न ते यांति नरश्रेष्ठ कदाचिद्यम यातनाम्
मनसापि परेषां यः कलत्राणि न सेवते । सह लोकद्वये नास्ति तेन वैश्य धरा धृता
तस्माद्धर्म्मान्वितैस्त्याज्यं परदारोपसेवनम् । नयंति परदारास्तु नरकानेकविंशतिम्
लोभो न जायते येषां परदारेषु मानसे । ते यांति देवलोकं तु न यमं वैश्यसत्तम
शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयते । जितस्वर्गः स मंतव्यः पुरुषोऽक्रोधनो भुवि
मातरं पितरं पुत्र आराधयति देववत् । अप्राप्ते वार्द्धके काले न याति च यमालयम्
पितुश्चाधिकभावेन येऽर्चयंति गुरुं नराः । भवंत्यतिथयो लोके ब्रह्मणस्ते विशांवर
इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् । शीलभंगे च नारीणां यमलोकः सुदारुणः
शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात् । शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः
शूद्रस्य पाकयज्ञेन निषिद्धाचरणेन च । दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः
विचारयंति ये शास्त्रं वेदाभ्यासरताश्च ये । पुराणं संहितां ये च श्रावयंति पठंति च
व्याकुर्वंति स्मृतिर्ये च ये धर्मप्रतिबोधकाः । वेदांतेषु निषण्णा ये तैरियं जगती धृता
तत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः । गच्छंति ब्रह्मणो लोकं यत्र मोहो न विद्यते
ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम् । अपि वेदास्तमर्चंति भवबंधविदारणम्