गोग्रासं ये प्रयच्छंति ये शुश्रूषंति गाः सदा । येनारोहंति गोपृष्ठे ते स्वर्लोकनिवासिनः
गर्तमात्रं तु ये चक्रुर्यत्र गौरतृषा भवेत् । यमलोकमदृष्ट्वैव ते यांति स्वर्गतिं नराः
अग्निपूजा देवपूजा गुरुपूजा रताश्च ये । द्विजपूजा रता नित्यं ते विप्राः स्वर्गगामिनः
वापीकूपतडागादौ धर्मस्यांतो न विद्यते । पिबंति स्वेच्छया यत्र जलस्थल चरास्तदा
नित्यं दानपरः सोऽत्र कथ्यते विबुधैरपि । यथायथा च पानीयं पिबंति प्राणिनो भृशम्
तथातथाऽक्षयः स्वर्गो धर्मबुद्ध्या विशां वर । प्राणिनां जीवनं वारि प्राणा वारिणि संस्थिताः
नित्यस्नानेन पूयंते येऽपि पातकिनो नराः । प्रातःस्नानं हरेद्वैश्य बाह्माभ्यंतरजं मलम्
प्रातःस्नानेन निष्पापो नरो न निरयं व्रजेत् । स्नानं विना तु यो भुंक्ते मलाशी स सदा नरः
अस्नायी यो नरस्तस्य विमुखा पितृदेवताः । स्नानहीनो नरः पापः स्नानहीनो नरोऽशुचिः
अस्नायी नरकं भुंक्ते पुंस्कीटादिषु जायते । ये पुनः स्रोतसि स्नानमाचरंतीह पर्वणि
ते नैव नरकं यांति न जायंते कुयोनिषु । दुःस्वप्ना दुष्टचिंताश्च वंध्या भवंति सर्वदा
प्रातःस्नानेन शुद्धानां पुरुषाणां विशांवर । तिलांश्च तिलपात्रांश्च तिलप्रस्थं यथाविधि
दत्त्वा प्रेतपतेर्भूमौ न व्रजंति नराः क्वचित् । पृथिवीं कांचनं गां च दत्वा दानानि षोडश
गत्वा न विनिवर्तंते स्वर्गलोकाद्विकुंडल । पुण्यासु तिथिषु प्राज्ञो व्यतीपाते च संक्रमे
स्नात्वा दत्त्वा च यत्किंचिन्नैव मज्जति दुर्गतौ । नैवाक्रामंति दातारो दारुणं रौरवं पथम् । इहलोके न जायंते कुले धनविवर्जिते
सत्यवादी सदा मौनी प्रियवादी च यो नरः । अक्रोधनः समाचारो नातिवाद्यनसूयकः
सदा दाक्षिण्यसंपन्नः सदा भूतदयान्वितः । गोप्ता च परमर्माणां वक्ता परगुणस्य च
परस्वं तृणमात्रं च मनसापि न यो हरेत् । न पश्यंति विशांश्रेष्ठ ह्येते नरकयातनाम्
परापवादी पाखंडः पापेभ्योऽपि मतोऽधिकः । पच्यते नरके तावद्यावदाभूतसंप्लवम्
वक्ता परुषवाक्यानां मंतव्यो नरकागतः । संदेहो न विशांश्रेष्ठ पुनर्याति च दुर्गतिम्
न तीर्थैर्न तपोभिश्च कृतघ्नस्यास्ति निष्कृतिः । सहते यातनां घोरां स नरो नरके चिरम्
पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः । जितेंद्रियो जिताहारो न स याति यमालयम्
न तीर्थे पातकं कुर्यान्न च तीर्थोपजीवनम् । तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः
दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः । तीर्थे च दुर्जरं सर्वमेतत्किन्नरकं व्रजेत्
सकृद्गंगांभसि स्नातः पूतो गांगेयवारिणा । न नरो नरकं याति अपि पातकराशिकृत्
व्रतदानतपो यज्ञाः पवित्राणीतराणि च । गंगाबिंद्वभिषिक्तस्य न समा इति नः श्रुतम्
अन्यतीर्थसमां गंगां यो ब्रवीति नराधमः । स याति नरकं वैश्य दारुणं रौरवं महत्
धर्मद्रवं ह्यपां बीजं वैकुंठचरणच्युतम् । धृतं मूर्ध्नि महेशेन यद्गांगममलं जलम्
तद्ब्रह्मैव न संदेहो निर्गुणं प्रकृतेः परम् । तेन किं समतां गच्छेदपि ब्रह्मांडगोचरे
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि । नरो न नरकं याति किं तया सदृशं भवेत् । नान्येन दह्यते सद्यः क्रिया नरकदायिनी