छिद्यमानोऽसिपत्रैश्च भिद्यमानस्तु मुद्गरैः । चूर्ण्यमानः शिलापृष्ठे तप्तांगारेषु भर्जितः
इति दूतवचः श्रुत्वा भ्रातृदुःखेन दुःखितः । पुलकांकित सर्वांगो दीनोऽसौ विनयान्वितः
उवाच तं देवदूतं मधुरं निपुणं वचः । मैत्री सप्तपदी साधो सतां भवति सत्फला
मित्रभावं विचिंत्य त्वं मामुपाकर्तुमर्हसि । ततो हि श्रोतुमिच्छामि सर्वज्ञस्त्वं मतो मम
यमलोकं न पश्यंति कर्मणा केन मानवाः । गच्छंति निरयं येन तन्मे त्वं कृपया वद
देवदूत उवाच- सम्यक्पृष्टं त्वया वैश्य नष्टपापोऽसि सांप्रतम् । विशुद्धे हृदये पुंसां बुद्धिः श्रेयसि जायते
यद्यप्यवसरोनास्ति मम सेवापरस्य वै । तथापि च तव स्नेहात्प्रवक्ष्यामि यथामति
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । परपीडां न कुर्वंति न ते यांति यमालयम्
न वेदैर्न च दानैश्च न तपोभिर्न चाध्वरैः । कथंचित्स्वर्गतिं यांति पुरुषाः प्राणिहिंसकाः
अहिंसा परमो धर्मो ह्यहिंसैव परं तपः । अहिंसा परमं दानमित्याहुर्मुनयः सदा
मशकान्सरीसृपान्दंशान्यूकाद्यान्मानवांस्तथा । आत्मौपम्येन पश्यंति मानवा ये दयालवः
तप्तांगारमयस्कीलं मादंप्रेतरंगिणीम् । दुर्गतिं नैव गच्छंति कृतांतस्य च ते नराः
भूतानि येऽत्र हिंसंति जलस्थलचराणि च । जीवनार्थं च ते यांति कालसूत्रं च दुर्गतिम्
श्वमांसभोजनास्तत्र पूयशोणितपायिनः । मज्जंतश्च वसापंके दष्टाः कीटैरधोमुखैः
परस्परं च खादंतो ध्वांते चान्योन्य घातिनः । वसंति कल्पानेकांस्ते रुदंतो दारुणं रवम्
कृमियोनि शतं गत्वा स्थावराः स्युश्चिरं तु ते । ततोच्छंति ते क्रूरास्तिर्यग्योनि शतेषु च
पश्चाद्भवंति जातांधाः काणाः कुब्जाश्च पंगवः । दरिद्राश्चांगहीनाश्च मानुषाः प्राणिहिंसकाः
तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरा । लोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत्
लोकद्वयेन विंदंति सुखानि प्राणिहिंसकाः । येन हिंसन्ति भूतानि न ते बिभ्यति कुत्रचित्
प्रविशंति यथा नद्यः समुद्रमृजुवक्रगाः । सर्वे धर्मा अहिंसायां प्रविशंति तथा दृढम्
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । अभयं येन भूतेभ्यो दत्तमत्र विंशांवर
ये नियोगांश्च शास्त्रोक्तान्धर्माधर्म विमिश्रितान् । पालयंतीह ये वैश्य न ते यांति यमालयम्
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । स्वधर्मनिरताः सर्वे नाकपृष्ठे वसंति ते
यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताः । नरा जितेंद्रिया यांति ब्रह्मलोकं तु शाश्वतम्
इष्टापूर्तरता ये च पंचयज्ञरताश्च ये । दयान्विताश्च ये नित्यं नेक्षंते ते यमालयम्
इंद्रियार्थनिवृत्ता ये समर्था वेदवादिनः । अग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः
अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताः । आहवेषु विपन्ना ये तेषां मार्गो दिवाकरः
अनाथ स्त्री द्विजार्थे च शरणागतपालने । प्राणांस्त्यजंति ये वैश्य न च्यवंति दिवस्तु ते
पंग्वंधबालवृद्धांश्च रोग्यनाथदरिद्रितान् । ये पुष्णंति सदा वैश्य ते मोदंति सदा दिवि
गां दृष्ट्वा पंकनिर्मग्नां रोगमग्नं द्विजं तथा । उद्धरंति नरा ये च तेषां लोकोऽश्वमेधिनाम्