स्वकृतं भुज्यते वैश्य कालेकाले पुनःपुनः । एकः करोति कर्माणि एकस्तत्फलमश्नुते
अन्यो न लिप्यते वैश्य कर्मणान्यस्य कुत्रचित् । अपतन्नरके पापैस्तवभ्राता सुदारुणैः । त्वं च धर्मेण धर्मज्ञ स्वर्गं प्राप्नोषि शाश्वतम्
विकुंडल उवाच- आबाल्यान्मम पापेषु न पुण्येषु रतं मनः । अस्मिञ्जन्मनि हे दूत दुष्कृतं हि कृतं मया
देवदूत न जानामि सुकृतं कर्म चात्मनः । यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद
देवदूत उवाच- शृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितम् । जानामि तदहं सर्वं न त्वं वेत्सि सुनिश्चितम्
हरिमित्रसुतो विप्रः सुमित्रो वेदपारगः । आसीत्तस्याश्रमः पुण्यो यमुना दक्षिणेतटे
तेन सख्यं वने तस्मिंस्तव जातं विशांवर । तत्संगेन त्वया स्नातं माघमासद्वयं तथा
कालिंदी पुण्यपानीये सर्वपापहरे वरे । तत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने
एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशांपते । द्वितीयमाघपुण्येन प्राप्तः स्वर्गस्त्वयानघ
त्वं तत्पुण्यप्रभावेण मोदस्व सततं दिवि । नरकेषु तव भ्राता महतीं पापयातनाम्
छिद्यमानोऽसिपत्रैश्च भिद्यमानस्तु मुद्गरैः । चूर्ण्यमानः शिलापृष्ठे तप्तांगारेषु भर्जितः
इति दूतवचः श्रुत्वा भ्रातृदुःखेन दुःखितः । पुलकांकित सर्वांगो दीनोऽसौ विनयान्वितः
उवाच तं देवदूतं मधुरं निपुणं वचः । मैत्री सप्तपदी साधो सतां भवति सत्फला
मित्रभावं विचिंत्य त्वं मामुपाकर्तुमर्हसि । ततो हि श्रोतुमिच्छामि सर्वज्ञस्त्वं मतो मम
यमलोकं न पश्यंति कर्मणा केन मानवाः । गच्छंति निरयं येन तन्मे त्वं कृपया वद
देवदूत उवाच- सम्यक्पृष्टं त्वया वैश्य नष्टपापोऽसि सांप्रतम् । विशुद्धे हृदये पुंसां बुद्धिः श्रेयसि जायते
यद्यप्यवसरोनास्ति मम सेवापरस्य वै । तथापि च तव स्नेहात्प्रवक्ष्यामि यथामति
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । परपीडां न कुर्वंति न ते यांति यमालयम्
न वेदैर्न च दानैश्च न तपोभिर्न चाध्वरैः । कथंचित्स्वर्गतिं यांति पुरुषाः प्राणिहिंसकाः
अहिंसा परमो धर्मो ह्यहिंसैव परं तपः । अहिंसा परमं दानमित्याहुर्मुनयः सदा
मशकान्सरीसृपान्दंशान्यूकाद्यान्मानवांस्तथा । आत्मौपम्येन पश्यंति मानवा ये दयालवः
तप्तांगारमयस्कीलं मादंप्रेतरंगिणीम् । दुर्गतिं नैव गच्छंति कृतांतस्य च ते नराः
भूतानि येऽत्र हिंसंति जलस्थलचराणि च । जीवनार्थं च ते यांति कालसूत्रं च दुर्गतिम्
श्वमांसभोजनास्तत्र पूयशोणितपायिनः । मज्जंतश्च वसापंके दष्टाः कीटैरधोमुखैः
परस्परं च खादंतो ध्वांते चान्योन्य घातिनः । वसंति कल्पानेकांस्ते रुदंतो दारुणं रवम्
कृमियोनि शतं गत्वा स्थावराः स्युश्चिरं तु ते । ततोच्छंति ते क्रूरास्तिर्यग्योनि शतेषु च
पश्चाद्भवंति जातांधाः काणाः कुब्जाश्च पंगवः । दरिद्राश्चांगहीनाश्च मानुषाः प्राणिहिंसकाः
तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरा । लोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत्
लोकद्वयेन विंदंति सुखानि प्राणिहिंसकाः । येन हिंसन्ति भूतानि न ते बिभ्यति कुत्रचित्
प्रविशंति यथा नद्यः समुद्रमृजुवक्रगाः । सर्वे धर्मा अहिंसायां प्रविशंति तथा दृढम्