तयोस्तु तिष्ठतोर्गेहे नास्ति यद्भुज्यते तदा । स्वजनैर्बांधवैस्सर्वैः सेवकैरुपजीविभिः
द्रव्याभावे परित्यक्तौ चिंत्यमानौ ततः पुरे । पश्चाच्चौर्य्यं समारब्धं ताभ्यां च नगरे नृप
राजतो लोकतो भीतौ स्वपुरान्निःसृतौ तदा । चक्रतुर्वनवासं तौ सर्वेषामुपपीडितौ
जघ्नतुः सततं मूढौ शितैर्बाणैर्विषार्पितैः । नानापक्षिवराहांश्च हरिणान्रोहितांस्तथा
शशकाञ्छल्लकान्गोधान्श्वापदांश्चेतरान्बहून् । महाबलौ भिल्लसंगावाखेटकभुजौ सदा
एवं मांसमयाहारौ पापाहारौ परंतप । कदाचिद्भूधरं प्राप्तो ह्येकोऽन्यश्च वनं गतः
शार्दूलेन हतो ज्येष्ठः कनिष्ठः सर्पदंशितः । एकस्मिन्दिवसे राजन्पापिष्ठौ निधनं गतौ
यमदूतैस्ततोबद्ध्वा पापैर्नीतौ यमालयम् । गत्वाभिजगदुःसर्वे ते दूताः पापिनावुभौ
धर्मराज नरावेतावानीतौ तव शासनात् । आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम्
आलोच्य चित्रगुप्तेन तदा दूताञ्जगौ यमः । एकस्तु नीयतां वीर निरयं तीव्रवेदनम्
अपरः स्थाप्यतां स्वर्गेयत्र भोगा ह्यनुत्तमाः । कृतांताज्ञां ततः श्रुत्वा दूतैश्च क्षिप्रकारिभिः
निक्षिप्तो रौरवे घोरे यो ज्येष्ठो हि नराधिप । तेषां दूतवरः कश्चिदुवाच मधुरं वचः
विकुंडल मया सार्द्धमेहि स्वर्गं ददामि ते । भुंक्ष्व भोगान्सुदिव्यांस्त्वमर्जितान्स्वेन कर्मणा
नारदउवाच- ततो हृष्टमनाः सोऽथ दूतं पप्रच्छ तं पथि । संदेहं हृदि कृत्वा तु विस्मयं परमं गतः । विचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम
विकुंडल उवाच- हे दूतवर पृच्छामि संशयं त्वामहं परम् । आवां जातौ कुले तुल्ये तुल्यं कर्म तथा कृतम्
दुर्मृत्युरपि तुल्योभूत्तुल्यो दृष्टो यमस्तथा । कथं स नरके क्षिप्तस्तुल्यकर्म्मा ममाग्रजः
ममाभवत्कथं नाकमिति मे छिंधि संशयम् । देवदूत न पश्यामि मम स्वर्गस्य कारणम्
देवदूत उवाच- माता पिता सुतो जाया स्वसा भ्राता विकुंडल । जन्महेतोरियं संज्ञा जंतोः कर्म्मोपभुक्तये
एकस्मिन्पादपे यद्वच्छकुनानां समागमः । यद्यत्समीहितं कर्म कुरुते पूर्वभावितः
तस्य तस्य फलं भुंक्ते कर्म्मणः पुरुषः सदा । सत्यं वदामि ते प्रीत्या नरैः कर्म्म शुभाशुभम्
स्वकृतं भुज्यते वैश्य कालेकाले पुनःपुनः । एकः करोति कर्माणि एकस्तत्फलमश्नुते
अन्यो न लिप्यते वैश्य कर्मणान्यस्य कुत्रचित् । अपतन्नरके पापैस्तवभ्राता सुदारुणैः । त्वं च धर्मेण धर्मज्ञ स्वर्गं प्राप्नोषि शाश्वतम्
विकुंडल उवाच- आबाल्यान्मम पापेषु न पुण्येषु रतं मनः । अस्मिञ्जन्मनि हे दूत दुष्कृतं हि कृतं मया
देवदूत न जानामि सुकृतं कर्म चात्मनः । यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद
देवदूत उवाच- शृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितम् । जानामि तदहं सर्वं न त्वं वेत्सि सुनिश्चितम्
हरिमित्रसुतो विप्रः सुमित्रो वेदपारगः । आसीत्तस्याश्रमः पुण्यो यमुना दक्षिणेतटे
तेन सख्यं वने तस्मिंस्तव जातं विशांवर । तत्संगेन त्वया स्नातं माघमासद्वयं तथा
कालिंदी पुण्यपानीये सर्वपापहरे वरे । तत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने
एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशांपते । द्वितीयमाघपुण्येन प्राप्तः स्वर्गस्त्वयानघ
त्वं तत्पुण्यप्रभावेण मोदस्व सततं दिवि । नरकेषु तव भ्राता महतीं पापयातनाम्