उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता । शूद्र भक्षो हतो योगः कृपणस्य हतं धनम्
अनभ्यासहता विद्या हतो बोधो विरोधकृत् । जीवितार्थं हतं तीर्थं जीवनार्थं हतं व्रतम्
असत्या च हता वाणी तथा पैशुन्यवादिनी । षट्कर्णगो हतो मंत्रो व्यग्रचित्तो हतो जपः
हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः । अश्रद्धया हतं सर्वं यत्कृतं पारलौकिकम्
इह लोको हतो नॄणां दरिद्राणां यथा नृप । मनुष्याणां हतं जन्म कालिदीमज्जनं विना
उपपातक सर्वाणि पातकानि महांति च । भस्मी भवंति सर्वाणि यमुनामज्जनान्नृप
वेपंते सर्वपापानि यमुनायां गते नरे । नाशके सर्वपापानां यदि स्नास्यति वारिणि
पावका इव दीप्यंते यमुनायां नरोत्तमाः । विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः
आर्द्र शुष्कलघुस्थूलं वाङ्मनः कर्मभिः कृतम् । तत्र स्नानं दहेत्पापं पावकः समिधो यथा
प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् । स्नानमात्रेण नश्येत यमुनायां नृपोत्तम
निष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम् । संदेहो नात्र कर्तव्यः स्नाने वै यमुनाजले
सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ तथा नृप । सर्वेषां सर्वदा देवी यमुना पापनाशिका
एष एव परो मंत्र एतच्च परमं तपः । प्रायश्चित्तं परं चैव यमुनास्नानमुत्तमम्
नृणां जन्मांतराभ्यासात्कालिंदी मज्जने मतिः । अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप
संसारकर्दमालेप प्रक्षालन विशारदम् । पावनं पावनानां च यमुनास्नानमुत्तमम्
स्नातास्तत्र च ये राजन्सर्वकामफलप्रदे । शुभांश्च भुंजते भोगांश्चंद्र सूर्यग्रहोपमान्
यमुना मोक्षदा प्रोक्ता मथुरासंगता यदि । मथुरायां च कालिंदी पुण्याधिकविवर्द्धिनी
अन्यत्र यमुना पुण्या महापातकहारिणी । विष्णुभक्तिप्रदा देवी मथुरा संगता भवेत्
भक्तिभावेन संयुक्ता कालिंद्यां यदि मज्जयेत् । कल्पकोटिसहस्राणि वसते सन्निधौ हरेः
मुक्तिं प्रयांति मनुजाः नूनं सांख्येन वर्जिताः । पितरस्तस्य तृप्यंति तृप्ताः कल्पशतैर्दिवि
ये पिबंति नरा राजन्यमुनासलिलं शुभम् । पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम्
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् । तत्र दानं च होमश्च सर्वं कोटिगुणं भवेत्
नारद उवाच-। अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् । पुरा कृतयुगे राजन्निषधे नगरे वरे
आसीद्वैश्यः कुबेराभो नामतो हेमकुंडलः । कुलीनः सत्क्रियो देवद्विजपावकपूजकः
कृषिवाणिज्यकर्त्तासौ विविधक्रयविक्रयी । गोघोटकमहिष्यादि पशुपोषणतत्परः
पयो दधीनि तक्राणि गोमयानि तृणानि च । काष्ठानि फलमूलानि लवणाद्रा र्!दिपिप्पली
धान्यानि शाकतैलानि वस्त्राणि विविधानि च । धातूनिक्षुविकारांश्च विक्रीणीते स सर्वदा
इत्थं नानाविधैर्वैश्य उपायैरपरैस्तथा । उपार्जयामास सदा अष्टौ हाटककोटयः
एवं महाधनः सोथ हाकर्णपलितोभवत् । पश्चाद्विचार्य संसारक्षणिकत्वं स्वचेतसि
तद्धनस्य षडंशेन धर्मकार्यं चकार सः । विष्णोरायतनं चक्रे गृहं चक्रे शिवस्य च