अस्थिस्तंभं स्नायुबंधं मांसक्षतज लेपनम् । चर्मावनद्ध दुर्गंधं पूर्णं मूत्रपुरीषयोः
जराशोक विपद्व्याप्तं रोगमंदिरमातुरम् । रागमूलमनित्यं च सर्वदोषसमाश्रयम्
परोपकारपापार्ति परद्रोहपरेर्षिकम् । लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा
निष्ठुरं दुर्धरं दुष्टं दोषत्रयविदूषितम् । अशुचितापि दुर्गंधि तापत्रयविमोहितम्
निसर्गतो ऽधर्मरतं तृष्णाशतसमाकुलम् । कामक्रोधमहालोभ नरकद्वारसंस्थितम्
कृमिवर्चस्तु भस्मादि परिणामगुणावहम् । ईदृक्शरीरं व्यर्थं हि यमुनामज्जनं विना
बुद्बुदा इव तोयेषु प्रत्यंडा इव पक्षिषु । जायंते मरणायैव यमुनास्नान वर्जिताः
अवैष्णवो हतो विप्रो हतं श्राद्धमपिंडकम् । अब्रह्मण्यं हतं क्षत्रमनाचार हतं कुलम्
सदंभश्च हतो धर्म्मः क्रोधेनैव हतं तपः । अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम्
परभक्त्या हता नारी ब्रह्मचारी स्त्रिया हतः । अदीप्तेऽग्नौ हतो होमो हता भक्तिः समायिका
उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता । शूद्र भक्षो हतो योगः कृपणस्य हतं धनम्
अनभ्यासहता विद्या हतो बोधो विरोधकृत् । जीवितार्थं हतं तीर्थं जीवनार्थं हतं व्रतम्
असत्या च हता वाणी तथा पैशुन्यवादिनी । षट्कर्णगो हतो मंत्रो व्यग्रचित्तो हतो जपः
हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः । अश्रद्धया हतं सर्वं यत्कृतं पारलौकिकम्
इह लोको हतो नॄणां दरिद्राणां यथा नृप । मनुष्याणां हतं जन्म कालिदीमज्जनं विना
उपपातक सर्वाणि पातकानि महांति च । भस्मी भवंति सर्वाणि यमुनामज्जनान्नृप
वेपंते सर्वपापानि यमुनायां गते नरे । नाशके सर्वपापानां यदि स्नास्यति वारिणि
पावका इव दीप्यंते यमुनायां नरोत्तमाः । विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः
आर्द्र शुष्कलघुस्थूलं वाङ्मनः कर्मभिः कृतम् । तत्र स्नानं दहेत्पापं पावकः समिधो यथा
प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् । स्नानमात्रेण नश्येत यमुनायां नृपोत्तम
निष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम् । संदेहो नात्र कर्तव्यः स्नाने वै यमुनाजले
सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ तथा नृप । सर्वेषां सर्वदा देवी यमुना पापनाशिका
एष एव परो मंत्र एतच्च परमं तपः । प्रायश्चित्तं परं चैव यमुनास्नानमुत्तमम्
नृणां जन्मांतराभ्यासात्कालिंदी मज्जने मतिः । अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप
संसारकर्दमालेप प्रक्षालन विशारदम् । पावनं पावनानां च यमुनास्नानमुत्तमम्
स्नातास्तत्र च ये राजन्सर्वकामफलप्रदे । शुभांश्च भुंजते भोगांश्चंद्र सूर्यग्रहोपमान्
यमुना मोक्षदा प्रोक्ता मथुरासंगता यदि । मथुरायां च कालिंदी पुण्याधिकविवर्द्धिनी
अन्यत्र यमुना पुण्या महापातकहारिणी । विष्णुभक्तिप्रदा देवी मथुरा संगता भवेत्
भक्तिभावेन संयुक्ता कालिंद्यां यदि मज्जयेत् । कल्पकोटिसहस्राणि वसते सन्निधौ हरेः
मुक्तिं प्रयांति मनुजाः नूनं सांख्येन वर्जिताः । पितरस्तस्य तृप्यंति तृप्ताः कल्पशतैर्दिवि