आहारं सा कृतवती मासिमासि नराधिप । ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोधनाः
आतिथ्यं च कृतं तेषां शाकेन किल भारत । ततः शाकंभरीत्येवं नाम तस्याः प्रतिष्ठितम्
शाकंभरीं समासाद्य ब्रह्मचारी समाहितः । त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् । तत्फलं तस्य भवति देव्याश्छंदेन भारत
ततो गच्छेत्सुवर्णाख्यं त्रिषुलोकेषु विश्रुतम् । यत्र कृष्णः प्रसादार्थं रुद्रमाराधयत्पुरा
वरांश्च सुबहूँल्लेभे देवैरपि स दुर्ल्लभान् । उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत
अपि चात्माप्रियतरो लोके कृष्ण भविष्यसि । त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः
तत्राभिगम्य राजेंद्र पूजयित्वा वृषध्वजम् । अश्वमेधमवाप्नोति गाणपत्यं च विंदति
धूमावतीं ततो गच्छेत्त्रिरात्रमुषितो नरः । मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः
देव्यास्तु दक्षिणार्धे नरथावर्त्तो नराधिप । तत्रागत्य तु धर्मज्ञ श्रद्दधानो जितेंद्रियः
महादेवप्रसादेन गच्छेत परमां गतिम् । प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
नारदउवाच-। ततो गच्छेत राजेंद्र कालिंदीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्
पुष्करे तु कुरुक्षेत्रे ब्रह्मावर्त्ते पृथूदके । अविमुक्ते सुवर्णाख्ये यत्फलं लभते नरः
तत्फलं समवाप्नोति यमुनायां नरोत्तम । स्वर्गभोगेतिरागो वै येषां मनसि वर्तते
यमुनायां विशेषेण स्नानदानेन सत्तम । आयुरारोग्यसंपत्तौ रूपयौवनता गुणे
येषां मनोरथस्तैस्तु न त्याज्यं यमुनाजलम् । ये बिभ्यति नरकादेर्दारिद्र्योऽत्र संति च
सर्वथा तैः प्रयत्नेन तत्र कार्यं निमज्जनम् । दारिद्र्य पाप दौर्भाग्य पंक प्रक्षालनाय वै
ऋते वै यामुनं तोयं न चान्योस्ति युधिष्ठिर । श्रद्धाहीनानि कर्माणि मतान्यर्धफलानि वै । फलं ददाति संपूर्णं यामुनं स्नानमात्रतः
अकामो वा सकामो वा यामुने सलिले नृप । इहामुत्र च दुःखानि मज्जनान्नैव पश्यति
पक्षद्वये यथा चंद्र क्षीःयते वर्द्धते तथा । पातकं नश्यते तत्र स्नानात्पुण्यं विवर्द्धते
यथाब्धौ सुखमायांति रत्नानि विविधानि च । आयुर्वित्तं कलत्राणि संपदः संभवंति च
कामधेनुर्यथा कामं चिंतामणिर्विचिंतितम् । ददाति यमुनास्नानं तद्वत्सर्वं मनोरथम्
कृते तपः परं ज्ञानं त्रेतायां यजनं तथा । द्वापरे च कलौ दानं कालिंदी सर्वदा शुभा
सर्वेषां सर्ववर्णानामाश्रमाणां च भूपते । यामुने मज्जनं धर्मं धाराभिः खलु वर्षति
अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः । कालिंद्यस्नायिनां नॄणां निष्फलं जन्मकीर्त्तितम्
नैश्वर्यं गगने यद्वच्चांद्रे ऽमायां तु मंडले । तद्वन्न भाति सत्कर्म यमुनामज्जनं विना
व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः । तत्र मज्जनमात्रेण यथा प्रीणाति केशवः
न समं विद्यते किंचित्तेजः सौरेण तेजसा । तद्वन्न यमुनास्नानं समानाः क्रतुजाः क्रियाः
प्रीतये वासुदेवस्य सर्वपापापनुत्तये । कालिंद्या मज्जनं कुर्य्यात्स्वर्गलाभाय मानवः
किं रक्षितेन देहेन सुपुष्टेन बलीयसा । अध्रुवेण सुदेहेन यमुना मज्जनं विना