सौगंधिकं वनं राजंस्ततो गच्छेत मानवः । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
सिद्धचारणगंधर्वाः किन्नराः स महोरगाः । तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते
ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी । प्लक्षादेवी स्मृता राजन्महा पुण्या सरस्वती
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले । अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत्
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् । षड्गुणं यन्निपातेषु वल्मीकादिति निश्चयः
कपिलानां सहस्रं च वाजिमेधं च विंदति । तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातनैः
सुगंधां शतकुंभां च पंचयज्ञं च भारत । अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते
त्रिशूलपात्रं तत्रैव तीर्थमासाद्य दुर्लभम् । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः । ततो राजगृहं गच्छेद्देव्याः स्थानं सुदुर्लभम्
शाकंभरीति विख्याता त्रिषुलोकेषु विश्रुता । दिव्यं वर्षसहस्रं च शाकेन किल भारत
आहारं सा कृतवती मासिमासि नराधिप । ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोधनाः
आतिथ्यं च कृतं तेषां शाकेन किल भारत । ततः शाकंभरीत्येवं नाम तस्याः प्रतिष्ठितम्
शाकंभरीं समासाद्य ब्रह्मचारी समाहितः । त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् । तत्फलं तस्य भवति देव्याश्छंदेन भारत
ततो गच्छेत्सुवर्णाख्यं त्रिषुलोकेषु विश्रुतम् । यत्र कृष्णः प्रसादार्थं रुद्रमाराधयत्पुरा
वरांश्च सुबहूँल्लेभे देवैरपि स दुर्ल्लभान् । उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत
अपि चात्माप्रियतरो लोके कृष्ण भविष्यसि । त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः
तत्राभिगम्य राजेंद्र पूजयित्वा वृषध्वजम् । अश्वमेधमवाप्नोति गाणपत्यं च विंदति
धूमावतीं ततो गच्छेत्त्रिरात्रमुषितो नरः । मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः
देव्यास्तु दक्षिणार्धे नरथावर्त्तो नराधिप । तत्रागत्य तु धर्मज्ञ श्रद्दधानो जितेंद्रियः
महादेवप्रसादेन गच्छेत परमां गतिम् । प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
नारदउवाच-। ततो गच्छेत राजेंद्र कालिंदीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात्
पुष्करे तु कुरुक्षेत्रे ब्रह्मावर्त्ते पृथूदके । अविमुक्ते सुवर्णाख्ये यत्फलं लभते नरः
तत्फलं समवाप्नोति यमुनायां नरोत्तम । स्वर्गभोगेतिरागो वै येषां मनसि वर्तते
यमुनायां विशेषेण स्नानदानेन सत्तम । आयुरारोग्यसंपत्तौ रूपयौवनता गुणे
येषां मनोरथस्तैस्तु न त्याज्यं यमुनाजलम् । ये बिभ्यति नरकादेर्दारिद्र्योऽत्र संति च
सर्वथा तैः प्रयत्नेन तत्र कार्यं निमज्जनम् । दारिद्र्य पाप दौर्भाग्य पंक प्रक्षालनाय वै
ऋते वै यामुनं तोयं न चान्योस्ति युधिष्ठिर । श्रद्धाहीनानि कर्माणि मतान्यर्धफलानि वै । फलं ददाति संपूर्णं यामुनं स्नानमात्रतः
अकामो वा सकामो वा यामुने सलिले नृप । इहामुत्र च दुःखानि मज्जनान्नैव पश्यति
पक्षद्वये यथा चंद्र क्षीःयते वर्द्धते तथा । पातकं नश्यते तत्र स्नानात्पुण्यं विवर्द्धते