त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप । इंद्रमार्गं समासाद्य तीर्थसेवी नराधिप
अहोरात्रोपवासेन स्वर्गलोके महीयते । एकरात्रं समासाद्य एकरात्रोषितो नरः
नियतः सत्यवादी च ब्रह्मलोके महीयते । तथा गछेच्च राजेंद्र तीर्थं त्रैलोक्यविश्रुतम्
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः । तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम्
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् । सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह
सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः । ततो गच्छेत धर्मज्ञ दधीचस्य नराधिप
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् । यत्र सारस्वतो यातः सिद्धिं स तपसोनिधिः
तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् । सारस्वतीं मतिं चैव लभते नात्र संशयः
ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया । त्रिरात्रमुषितो राजन्नुपवासपरायणः
लभेत्कन्याशतं दिव्यं बह्मलोकं च गच्छति । ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः । मासि मासि समेष्यंति पुण्येन महतान्विताः
सन्निहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । अश्वमेधशतं तेन इष्टं भवति शाश्वतम्
पृथिव्यां यानि तीर्थानि अंतरिक्षचराणि च । उदपानाश्च विप्राश्च पुण्यान्यायतनानि च
निःसंशयममावास्यां समेष्यंति नराधिप । मासिमासि नरव्याघ्र सन्निहित्यां जनेश्वर
तीर्थसन्नयनादेव सन्निहिती भुवि विश्रुता । तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते
अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे । यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् । स्नात एव तदाप्नोति श्राद्धं कृत्वा च मानवः
यत्किंचिद्दुष्कृतं कर्म्म स्त्रिया वा पुरुषस्य वा । स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः
पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति । अभिवाद्य ततो नाम्ना द्वारपालं मचक्रुकम्
गंगाह्रदश्च तत्रैव तीर्थं भरतसत्तम । तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः
राजसूयाश्वमेधाभ्यां फलं विंदति मानवः । पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम्
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते । पांसवोऽपि कुरुक्षेत्रे वायुनाति समीरिताः
अपि दुष्कृतकर्म्माणं नयंति परमां गतिम् । दक्षिणेन सरस्वत्यामुत्तरेण सरस्वतीम्
ये वसंति कुरुक्षेत्रे ते वसंति त्रिविष्टपे । कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
अप्येकां वाचमुत्मृज्य स्वर्गलोके महीयते । ब्रह्मवेद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्
तस्मिन्वसंति ये राजन्न ते शोच्याः कथंचन । तरंडकारंडकयोर्यदंतरं रामह्रदानां च मचक्रुकस्य च । एतत्कुरुक्षेत्र समंतपंचकं पितामहस्योत्तर वेदिरुच्यते
नारद उवाच-। ततो गच्छेत धर्म्मज्ञ धर्म्मतीर्थं पुरातनम् । यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः
तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च चिह्नितम् । तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः
आसप्तमं कुलं चैव पुनीते नात्र संशयः । ततो गच्छेत धर्मज्ञ कलाप वनमुत्तमम्
कृच्छ्रेण महता गत्वा तत्र स्नात्वा समाहितः । अग्निष्टोममवाप्नोति विष्णुलोकं च गच्छति