ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् । सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम्
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया । अग्निष्टोमातिरात्राभ्यां फलं चैव समश्नुते
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः । अवकीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह
विप्राणामनुकंपार्थं दर्भिणा निर्मितं पुरा । व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः
क्रियामंत्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः । क्रियामंत्रविहीनोऽपि तत्र स्नात्वा नरर्षभ
चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम् । समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा
तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात् । फलानि गोसहस्राणां चतुर्णां विंदते च सः
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् । साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते
उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् । दानं वाप्युपवासो वा सहस्रगुणितो भवेत्
ततो गच्छेत राजेंद्र रेणुकातीर्थमुत्तमम् । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् । विमोचन उपस्पृश्य जितमन्युर्जितेंद्रियः
प्रतिग्रहकृतैः पापैः सर्वैः संपरिमुच्यते । ततः पंचवटं गत्वा ब्रह्मचारी जितेंद्रियः
पुण्येन महता युक्तः स्वर्गलोके महीयते । यत्र योगीश्वरः स्थाणुः स्वयमेव वृषध्वजः
तमर्चयित्वा देवेशं गमनादेव सिध्यति । तैजसं वारुणं तीर्थं दीप्यते स्वेन तेजसा
यत्र ब्रह्मादिभिर्देवैर्ऋषिभिश्च तपोधनैः । सैनापत्ये च देवानामभिषिक्तो गुहस्तदा
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह । कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेंद्रियः
सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते । स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः
अग्निष्टोममवाप्नोति ब्रह्मलोकं च गच्छति । ततो गच्छेदनरकं तीर्थसेवी नराधिप
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् । तत्र ब्रह्मा स्वयं नित्यं देवैस्सह महीयते
अध्यास्ते पुरुषव्याघ्र नारायणपरागमैः । सान्निध्यं चैव राजेंद्र रुद्रवेद्यां कुरुद्वह
अभिगम्य तु तां देवीं न दुर्गतिमवाप्नुयात् । तत्रैव च महाराज विश्वेश्वरमुमापतिम्
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः । नारायणं चाभिगम्य पद्मनाभमरिंदम
शोभमानो महाराज विष्णुलोकं प्रपद्यते । तीर्थेषु सर्वदेवानां स्नातमात्रो नराधिप
सर्वदुःखपरित्यक्तो द्योतते शिववत्सदा । ततस्त्वस्थिपुरं गच्छेत्तीर्थसेवी नराधिप
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः । अग्निष्टोमस्य यज्ञस्य फलमाप्नोति भारत
गंगाह्रदश्च तत्रैव कूपश्च भरतर्षभ । तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीयते
तत्र स्नात्वा नरो राजन्ब्रह्मलोके प्रपद्यते । आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम्
गतिं परामवाप्नोति कुलं चैव समुद्धरेत् । ततः स्थाणुवटं गछेत्त्रिषुलोकेषु विश्रुतम्
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् । बदरीणां वनं गच्छेद्वसिष्ठस्याश्रमं ततः
बदरी भक्ष्यते यत्र त्रिरात्रोपोषितो नरः । सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः