अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् । हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव
ऋषिरुवाच-। तपस्विनो धर्म्मपथस्थितस्य द्विजसत्तम । किं न पश्यसि मे ब्रह्मन्क्षताच्छाकरसं सृतम्
यं दृष्ट्वा संप्रनृत्तोऽहं हर्षेण महता वृतः । तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम्
अहं तु विस्मयं विप्र न गच्छामीह पश्य माम् । एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा
अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितोऽनघ । तस्य भस्मक्षताद्राजन्निःसृतं हिमसंनिभम्
यं दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः । नान्यं देवादहं मन्ये रुद्रात्परतरं महत्
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् । त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम्
त्वामेव भगवन्सर्वे प्रविशंति युगक्षये । देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया
त्वयि सर्वेश दृश्यंते सुराः शक्रादयोऽनघ । सर्वस्त्वमसि लोकानां कर्ता कारयितान्वहम्
त्वत्प्रसादात्सुराः सर्वे मोदंतीहाकुतोभयाः । एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत्
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै । ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत्
तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा । आश्रमे चेह वत्स्यामि त्वया सार्द्धं महामुने
सप्तसारस्वते स्नात्वा अर्चयिष्यंति ये तु माम् । न तेषां दुर्लभं किंचिदिह लोके परत्र वा
गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः । एवमुक्त्वा महादेवस्तत्रैवांतरधीयत
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
कार्तिकेयश्च भगवांस्त्रिसंध्यां किल भारत । सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया
कपालमोचनं तीर्थं सर्वपापप्रणाशनम् । तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते
अग्नितीर्थं ततो गच्छेत्स्नात्वा च भरतर्षभ । अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत्
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम । तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः । तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते
पुनात्या सप्तमं चैव कुलं नास्त्यत्र संशयः । ततो गच्छेत राजेंद्र तीर्थं त्रैलोक्यविश्रुतम्
पृथूदकमिति ख्यातं कार्तिकेयस्य व्नृप । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा । यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना
तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत । अश्वमेधफलं चापि लभते स्वर्गमेव च
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् । सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् । पृथूदके जप्यपरो नैव संसरणं लभेत्
गीतं सनत्कुमारेण व्यासेन च महात्मना । वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम्
पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम । एतन्मेध्यं पवित्रं च पावनं च न संशयः
तत्र स्नात्वा दिवं यांति अपि पापकृतो जनाः । पृथूदके नरश्रेष्ठमाहुरेवं मनीषिणः
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्