नारद उवाच-। ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् । कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत्
ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् । तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः
ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम् । ततो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम्
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् । सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप
यत्र मंकणकः सिद्धो ब्रह्मर्षिर्लोकविश्रुतः । पुरा मंकणको राजन्कुशाग्रेणेति विश्रुतम्
क्षतः किल करे राजन्तस्य शाकरसोऽस्रवत् । स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः
ननर्त किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः । ततस्तस्मिन्प्रनृत्ते वै स्थावरं जंगमं च यत्
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् । ब्रह्मादिभिस्ततो देवैर्ऋषिभिश्च तपोधनैः
विज्ञप्तो वै ऋषेरर्थे महादेवो नराधिप । नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टेन चेतसा । नृत्यंतमब्रवीच्चैनं स्थिराणां हितकाम्यया
अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् । हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव
ऋषिरुवाच-। तपस्विनो धर्म्मपथस्थितस्य द्विजसत्तम । किं न पश्यसि मे ब्रह्मन्क्षताच्छाकरसं सृतम्
यं दृष्ट्वा संप्रनृत्तोऽहं हर्षेण महता वृतः । तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम्
अहं तु विस्मयं विप्र न गच्छामीह पश्य माम् । एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा
अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितोऽनघ । तस्य भस्मक्षताद्राजन्निःसृतं हिमसंनिभम्
यं दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः । नान्यं देवादहं मन्ये रुद्रात्परतरं महत्
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् । त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम्
त्वामेव भगवन्सर्वे प्रविशंति युगक्षये । देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया
त्वयि सर्वेश दृश्यंते सुराः शक्रादयोऽनघ । सर्वस्त्वमसि लोकानां कर्ता कारयितान्वहम्
त्वत्प्रसादात्सुराः सर्वे मोदंतीहाकुतोभयाः । एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत्
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै । ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत्
तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा । आश्रमे चेह वत्स्यामि त्वया सार्द्धं महामुने
सप्तसारस्वते स्नात्वा अर्चयिष्यंति ये तु माम् । न तेषां दुर्लभं किंचिदिह लोके परत्र वा
गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः । एवमुक्त्वा महादेवस्तत्रैवांतरधीयत
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
कार्तिकेयश्च भगवांस्त्रिसंध्यां किल भारत । सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया
कपालमोचनं तीर्थं सर्वपापप्रणाशनम् । तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते
अग्नितीर्थं ततो गच्छेत्स्नात्वा च भरतर्षभ । अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत्
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम । तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः । तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते