अर्चितातिथिराम्नातो वेदशास्त्रविशारदः । आहर्ता क्रतुसंघानां तापसानां प्रियः सदा
देवान्संतर्पयामास हव्यैर्हुतवहं चिरम् । न चोपलेभे धर्मात्मा शांतिमेकांतिकीं ततः
निःश्रेयसं स जिज्ञासुस्तापसाननुवासरम् । सिषेवे सत्यसंकल्पाननल्पैरेव कल्पकैः
एवमाचरतस्तस्य काले महति गच्छति । मुक्तकर्मा ततः कश्चित्प्रादुरासीत्पुरा भुवि
अनुभूतनिराकांक्षी नासाग्रन्यस्तलोचनः । शांतचेताः परं ब्रह्म ध्यायन्नानंदनिर्भरः
पादौ तस्योपसंगृह्य प्रणतेनांतरात्मना । चकार विधिवत्तस्मै विद्वानतिथिसत्क्रियाम्
तं च शुद्धेन भावेन परितुष्टं तपस्विनम् । प्रणतः परिपप्रच्छ निर्वाणस्थितिमात्मनः
स तस्मै कथयामास पुरेऽसौ पुरनामनि । मित्रवंतमजापालमुपदेष्टारमात्मवित्
स चाभिवंद्य तत्पादावेत्यसौ पुरमूर्जितम् । तस्योत्तरदिशोभागे ददर्श विपुलं वनम्
मारुतांदोलितानेक कुसुमामोदसुंदरम् । उन्मत्तभ्रमरोद्गीत नादापूरितदिङ्मुखम्
तस्मिन्वने सरित्तीरे निषीदंतं शिलातले । मित्रवंतं ददर्शाथ सानंदस्तिमितेक्षणम्
अपि स्वाभाविकं वैरं हित्वान्योन्यं विरोधिभिः । सत्वैरावृतमुद्याने मंदस्यंदनभास्वति
शांतेषु मृगयूथेषु दशानंदमनोज्ञया । कृपानुविद्धया भूमिं निषिंचंतमिवामृतम्
उपेत्य विनयेनामुमुन्मनाः प्रीतमानसः । किंचिदानम्रशिरसा तेनापि स तु सत्कृतः
उपतस्थे ततो विद्वान्मित्रवंतमनन्यधीः । समाप्तध्यानकालं स पर्यपृच्छत्समाहितः
देवशर्मोवाच। आत्मानं वेत्तुमिच्छामि तदमुष्मिन्मनोरथे । लब्धसिद्धिमुपायं मामुपदेष्टुं त्वमर्हसि
श्रीभगवानुवाच। परामृश्य क्षणं सोऽपि मित्रवानिदमब्रवीत् । मित्रवानुवाच। विद्वन्विद्धि पुरावृत्तमुच्यमानमिदं मया
अस्ति गोदावरीतीरे प्रतिष्ठानाभिधं पुरम् । तत्र दुर्दमनामासीदन्वये च मनीषिणाम्
तत्रास्ति विक्रमो नाम सेव्यमानो महीपतिः । दानानि प्रत्यहं गृह्णन्वर्त्तते उदरंभरः
कालेन कालपाशेन बद्धानीतो यमालयम् । निरयेषु समग्रेषु यातना अनुभूय च
कस्मिंश्चित्स कुले जातो दुर्वृत्तानां द्विजन्मनाम् । भवांतरानुवर्तिन्या विद्यया स पुरस्कृतः
उपयेमे दुराधर्षां कन्यकामधमे कुले । कालेन सा वयो हित्वा शैशवं यौवनं ययौ
पीनस्तनी च सुश्रोणी मदविह्वललोचना । पतिं न सेहे दुर्वृत्तं चकमे स्वपतीन्परान्
वृत्तिमाहर्तुकामस्मिन्निर्गता सा पुराद्बहिः । संगता कामुकेनासौ चिरं चांडालजन्मना
दधे गर्भमसौ तस्मात्सा च कन्योपपद्यते । सैव भार्यापि तस्यासीत्पूर्वपापप्रसंगतः
सैव वृद्धा ततः काले डाकिनी समजायत । कुसंगात्कुमतिर्जाता दुष्टनारीप्रसंगतः
चखाद व्याधितं व्याधमसृगास्वादलालसा । भ्रमंती विपिने घोरे जनैर्दृष्ट्वा बहिष्कृता
परेतलोकमासाद्य व्याधौ व्याघ्रोऽभ्यवर्त्तत । नरकान्दारुणान्भुक्त्वा जीवहिंसा प्रभावतः
सापि कालेन दुष्टात्मा मृत्युवेगमुपागता । निरयानेत्य दुर्द्धर्षानजाजायत मद्गृहे
तामन्या अप्यहं विद्वन्पालयन्काननांतरे । अपश्यन्द्वीपिनं घोरं जिघांसंतमिवाखिलम्