कुरुश्रेष्ठ शुभं तीर्थं रामजन्मेति विश्रुतम् । तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत
नारदेनाभ्यनुज्ञातो लोकानाप्नोति दुर्ल्लभान् । शुक्लपक्षे दशम्यां तु पुंडरीकं समाविशेत्
तत्र स्नात्वा नरो राजन्पुंडरीकफलं लभेत् । ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र वैतरणी पुण्या नदी पापप्रमोचनी । तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम्
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् । ततो गच्छेत राजेंद्र फलकीवनमुत्तमम्
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः । तपश्चरंति विपुलं बहुवर्षसहस्रकम्
दृषत्पाने नरः स्नात्वा तर्पयित्वा च देवताः । अग्निष्टोमातिरात्राभ्यां फलं विंदति मानवः
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम । गोसहस्रस्य राजेंद्र फलमाप्नोति मानवः
पाणिख्याते नरः स्नात्वा तर्पयित्वा च देवताः । अवाप्नुते राजसूयमृषिलोकं च गच्छति
ततो गच्छेत धर्मज्ञ मिश्रकं लोकविश्रुतम् । तत्र तीर्थानि राजेंद्र मिश्रितानि महात्मना
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् । सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः
ततो व्यासवनं गच्छेन्नियतो नियताशनः । मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत्
गत्वा मधुवनीं चापि देव्याः स्थानं नरः शुचिः । तत्र स्नात्वार्चयेद्देवान्पितॄंश्च नियतः शुचिः
सदेव्या समनुज्ञातो गोसहस्रफलं लभेत् । कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत
स्नातो वै नियताहारः सर्वपापैः प्रमुच्यते । ततो व्यासस्थली नाम यत्र व्यासेन धीमता
पुत्रशोकाभितप्तेन देहत्यागाय निश्चयः । कृतो देवैश्च राजेंद्र पुनरुत्थापितस्तथा
अभिगम्य स्थलद्यं तस्य गोसहस्रफलं लभेत् । ऋणांतं कूपमासाद्य तिलप्रस्थं प्रदाय च
गच्छेत परमां सिद्धिमृणैर्मुक्तो नरेश्वर । वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
अहश्च सुदिनश्चैव द्वे तीर्थे नृप दुर्लभे । तयोः स्नात्वा नरः श्रेष्ठ सूर्यलोकमवाप्नुयात्
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् । तत्र रुद्रपदे स्नात्वा समभ्यर्च्य च मानवः
शूलपाणिं महात्मानमश्वमेधफलं लभेत् । कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
अथ वामनकं गत्वा त्रिषु लोकेषु विश्रुतम् । तत्र विष्णुपदे स्नात्वा समभ्यर्च्य च वामनम्
सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् । कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः
पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् । तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते
अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम् । अमराणां प्रभावेण स्वर्गलोके महीयते
शालिहोत्रस्य राजेंद्र शालिसूर्ये यथाविधि । स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत्
श्रीकुंजं च सरस्वत्यां तीर्थं भरतसत्तम । तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्
ततो नैमिषिकुंजं च समासाद्य सुदुर्लभम् । ऋषयः किल राजेंद्र नैमिषेयास्तपोधनाः
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रे गताः पुरा । ततः कुंजः सरस्वत्यां कृतो भरतसत्तम
ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् । तस्मिन्कुंजे नरः स्नात्वा गोसहस्रफलं लभेत्