उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् । ततो गच्छेत धर्म्मज्ञ ब्रह्मणः स्थानमुत्तमम्
ब्रह्मानुस्वरमित्येवं प्रकाशं भुवि भारत । तत्र सप्तर्षिकुंडेषु स्नातस्य भरतर्षभ
केदारे चैव राजेंद्र कपिलस्य महात्मनः । ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते । कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम्
अंतर्धानमवाप्नोति तपसा दग्धकिल्बिषः । ततो गच्छेत राजेंद्र सर्वकं लोकविश्रुतम्
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजं । लभते सर्वकामान्हि स्वर्गलोकं च गच्छति । तिस्रःकोट्यश्च तीर्थानां प्रवरं कुरुनंदन
रुद्रकोटी तथा कूपे ह्रदेषु च समंतकः । इलास्पदं च तत्रैव तीर्थं भरतसत्तम
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄनपि । न दुर्गतिमवाप्नोति वाजपेयं च विंदति
किंदाने च नरः स्नात्वा किंजपे च महीपते । अप्रमेयमवाप्नोति दानं यज्ञं तथैव च । कलश्यां वार्य्युपस्पृश्य श्रद्दधानो जितेंद्रियः
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः । सरकस्य तु पूर्वेण नारदस्य महात्मनः
कुरुश्रेष्ठ शुभं तीर्थं रामजन्मेति विश्रुतम् । तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत
नारदेनाभ्यनुज्ञातो लोकानाप्नोति दुर्ल्लभान् । शुक्लपक्षे दशम्यां तु पुंडरीकं समाविशेत्
तत्र स्नात्वा नरो राजन्पुंडरीकफलं लभेत् । ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम्
तत्र वैतरणी पुण्या नदी पापप्रमोचनी । तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम्
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् । ततो गच्छेत राजेंद्र फलकीवनमुत्तमम्
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः । तपश्चरंति विपुलं बहुवर्षसहस्रकम्
दृषत्पाने नरः स्नात्वा तर्पयित्वा च देवताः । अग्निष्टोमातिरात्राभ्यां फलं विंदति मानवः
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम । गोसहस्रस्य राजेंद्र फलमाप्नोति मानवः
पाणिख्याते नरः स्नात्वा तर्पयित्वा च देवताः । अवाप्नुते राजसूयमृषिलोकं च गच्छति
ततो गच्छेत धर्मज्ञ मिश्रकं लोकविश्रुतम् । तत्र तीर्थानि राजेंद्र मिश्रितानि महात्मना
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् । सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः
ततो व्यासवनं गच्छेन्नियतो नियताशनः । मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत्
गत्वा मधुवनीं चापि देव्याः स्थानं नरः शुचिः । तत्र स्नात्वार्चयेद्देवान्पितॄंश्च नियतः शुचिः
सदेव्या समनुज्ञातो गोसहस्रफलं लभेत् । कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत
स्नातो वै नियताहारः सर्वपापैः प्रमुच्यते । ततो व्यासस्थली नाम यत्र व्यासेन धीमता
पुत्रशोकाभितप्तेन देहत्यागाय निश्चयः । कृतो देवैश्च राजेंद्र पुनरुत्थापितस्तथा
अभिगम्य स्थलद्यं तस्य गोसहस्रफलं लभेत् । ऋणांतं कूपमासाद्य तिलप्रस्थं प्रदाय च
गच्छेत परमां सिद्धिमृणैर्मुक्तो नरेश्वर । वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्
अहश्च सुदिनश्चैव द्वे तीर्थे नृप दुर्लभे । तयोः स्नात्वा नरः श्रेष्ठ सूर्यलोकमवाप्नुयात्
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् । तत्र रुद्रपदे स्नात्वा समभ्यर्च्य च मानवः