तत्र स्थित्वा नरव्याघ्र अग्निष्टोमफलं लभेत् । ततो जयिन्यां राजेंद्र सोमतीर्थं समाविशेत्
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः । एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत्
कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह । पुंडरीकमवाप्नोति कृतशौचो भवेच्च सः
ततो मुंजावटं नाम महादेवस्य धीमतः । तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात्
तत्रैव च महाराज जयां लोकपरिश्रुताम् । स्नात्वाभिगम्य राजेंद्र सर्वकाममवाप्नुयात्
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ । प्रदक्षिणमुपावृत्य तीर्थसेवी समावृतः
संस्मृते पुष्कराणां तु स्नात्वार्च्य पितृदेवताः । जामदग्न्येन रामेण आहूते वै महात्मना
कृतकृत्यो भवेद्राजन्नश्वमेधं च विंदति । ततो रामह्रदं गच्छेत्तीर्थसेवी नराधिप
यत्र रामेण राजेंद्र तरसा दीप्ततेजसा । क्षत्रमुत्सार्य वीर्येण ह्रदाः पंच निषेविताः । पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम्
पितरस्तर्पिताः सर्वे तथैव प्रपितामहाः । ततस्ते पितरः प्रीताः राममूचुर्महीपते
रामराम महाभाग प्रीताः स्म तव भार्गव । अनया पितृभक्त्या च विक्रमेण च तेऽनघ
वरं वृणीष्व भद्रं ते किमिच्छसि महामते । एवमुक्तः स राजेंद्र रामः प्रवदतां वरः
अब्रवीत्प्रांजलिर्वाक्यं पितॄन्स गगने स्थितान् । भवंतो यदि मे प्रीता यद्यनुग्राह्यता मयि
पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः । यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया
ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् । ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा । प्रत्यूचुः परमप्रीता रामं तोषसमन्विताः
तपस्ते वर्द्धतां भूयः पितृभक्त्या विशेषतः । यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया
ततश्च पापान्मुक्तस्त्वं निहतास्ते स्वकर्म्मणा । ह्रदाश्च तव तीर्थत्वं गमिष्यंति न संशयः
ह्रदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति । पितरस्तस्य वै प्रीता दास्यंति भुवि दुर्ल्लभम्
ईप्सितं मनसः कामं स्वर्गलोकं सशाश्वतम् । एवं दत्त्वा वरं राजन्रामस्य पितरस्तदा । आमंत्र्य भार्गवं प्रीतास्तत्रैवांतर्दधुस्ततः
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः । स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः
राममभ्यर्च्य राजेंद्र लभेद्बहुसुवर्णकम् । वंशमूलं समासाद्य तीर्थसेवी कुरूद्वह
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके । कायशोधनमासाद्य तीर्थं भरतसत्तम
शरीरशुद्धिमाप्नोति स्नातस्तस्मिन्न संशयः । शुद्धदेहस्तु संयाति शुभाँल्लोकाननुत्तमान्
ततो गच्छेत राजेंद्र तीर्थं त्रैलोक्यदुर्लभम् । लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् । स्नात्वा तीर्थवरे राजन्लोकानुद्धरते स्वकान्
श्रीतीर्थं च समासाद्य विंदते श्रियमुत्तमाम् । कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः
तत्र स्नात्वार्चयित्वा च देवानिह पितॄंस्तथा । कपिलानां सहस्रस्य फलं विंदति मानवः
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः । अर्चयित्वा पितॄन्देवानुपवासपरायणः
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति । गवांभवनमासाद्य तीर्थसेवी यथाक्रमम्