कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसंमतम् । तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत
यजनं याजनं गत्वा तथैव ब्रह्मवालकम् । पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः
अर्द्धयोजनविस्तारां पंचयोजनमायताम् । एतावद्देविकामाहुः पुण्यां देवर्षिसंमताम्
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् । यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः
दीर्घसत्रमुपासंते दीक्षिता नियतव्रताः । गमनादेव राजेंद्र दीर्घसत्रमरिंदम
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः । ततो विनाशनं गच्छेन्नियतो नियताशनः
गच्छंत्यंतर्हिता यत्र मेरुपृष्ठे सरस्वती । चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् । शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् । शशयानं च राजेंद्र तीर्थमासाद्य दुर्लभम्
शशरूपप्रतिच्छन्ना पुष्करा यत्र भारत । सरस्वत्यां महाभाग अनुसंवत्सरंहिते
स्नायंते भरतश्रेष्ठ वृत्ता वै कार्त्तिकीं सदा । तत्र स्नात्वा नरव्याघ्र द्योतते शिववत्सदा
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ । कुमारकोटिमासाद्य नियतः कुरुनंदन
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । गवामयुतमाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहिताः । पुरा यत्र महाराज ऋषिकोटिः समाहिता
वर्षेण च समाविष्टा देवदर्शनकांक्षया । अहंपूर्वमहंपूर्वं द्रक्ष्यामि वृषभध्वजम्
एवं संप्रस्थिता राजनृषयः किलभारत । ततो योगीश्वरेणापि योगमास्थाय भूपते
तेषां मन्युप्रशांत्यर्थमृषीणां भावितात्मनाम् । सृष्टा तु कोटिरुद्राणामृषीणामग्रतः स्थिता
मया पूर्वं हरो दृष्टो इति ते मेनिरे पृथक् । तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम्
भक्त्या परमया राजन्वरं तेषां प्रदत्तवान् । अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः । अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेत राजेंद्र संगमं लोकविश्रुतम् । सरस्वत्यां महापुण्यमुपासीत जनार्दनम्
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः । अभिगच्छंति राजेंद्र चैत्रशुक्लचतुर्दशीम्
तत्र स्नात्वा नरव्याघ्र विंदेद्बहुसुवर्णकम् । सर्वपापविशुद्धात्मा शिवलोकं च गच्छति
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप । तत्रावसानमासाद्य गोसहस्रफलं लभेत्
नारदउवाच-। ततो गच्छेत राजेंद्र कुरुक्षेत्रमभिष्टुतम् । पापेभ्यो विप्रमुच्यंते तद्गताः सर्वजंतवः
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् । य एवं सततं ब्रूयात्सर्वपापैः प्रमुच्यते
तत्र मासं वसेद्धीरः सरस्वत्यां नराधिप । यत्र ब्रह्मादयो देवा यत्र ब्रह्मर्षिचारणाः
गंधर्वाप्सरसो यक्षाः पन्नगाश्च महीपते । ब्रह्मक्षेत्रं महापुण्यमभिगच्छंति भारत
मनसाप्यभिकामस्य कुरुक्षेत्रे युधिष्ठिर । पापानि विप्रणश्यंति ब्रह्मलोकं च गच्छति
गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह । वाजपेयाश्वमेध्याभ्यां फलं प्राप्नोति मानवः