काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च । वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम्
तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात् । सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्
ततो गच्छेत मलदं त्रिषु लोकेषु विश्रुतम् । पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि
चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् । पितॄणामक्षयं दानं प्रवदंति मनीषिणः
गवांशतसहस्रेण राजसूयशतेन च । अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः
ततो निवृत्तो राजेंद्र रुद्रास्पदमथाविशेत् । अभिगम्य महादेवमश्वमेधफलं लभेत्
मणिमंतं समासाद्य ब्रह्मचारी समाहितः । एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्
अथ गच्छेत राजेंद्र देविकां लोकविश्रुताम् । प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ
त्रिशूलपाणेः स्थानं यत्त्रिषुलोकेषु विश्रुतम् । देविकायां नरः स्नात्वा अभ्यर्च्य च महेश्वरम्
यथाशक्ति नरस्तत्र निवेद्य भरतर्षभ । सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसंमतम् । तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत
यजनं याजनं गत्वा तथैव ब्रह्मवालकम् । पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः
अर्द्धयोजनविस्तारां पंचयोजनमायताम् । एतावद्देविकामाहुः पुण्यां देवर्षिसंमताम्
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् । यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः
दीर्घसत्रमुपासंते दीक्षिता नियतव्रताः । गमनादेव राजेंद्र दीर्घसत्रमरिंदम
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः । ततो विनाशनं गच्छेन्नियतो नियताशनः
गच्छंत्यंतर्हिता यत्र मेरुपृष्ठे सरस्वती । चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् । शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् । शशयानं च राजेंद्र तीर्थमासाद्य दुर्लभम्
शशरूपप्रतिच्छन्ना पुष्करा यत्र भारत । सरस्वत्यां महाभाग अनुसंवत्सरंहिते
स्नायंते भरतश्रेष्ठ वृत्ता वै कार्त्तिकीं सदा । तत्र स्नात्वा नरव्याघ्र द्योतते शिववत्सदा
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ । कुमारकोटिमासाद्य नियतः कुरुनंदन
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । गवामयुतमाप्नोति कुलं चैव समुद्धरेत्
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहिताः । पुरा यत्र महाराज ऋषिकोटिः समाहिता
वर्षेण च समाविष्टा देवदर्शनकांक्षया । अहंपूर्वमहंपूर्वं द्रक्ष्यामि वृषभध्वजम्
एवं संप्रस्थिता राजनृषयः किलभारत । ततो योगीश्वरेणापि योगमास्थाय भूपते
तेषां मन्युप्रशांत्यर्थमृषीणां भावितात्मनाम् । सृष्टा तु कोटिरुद्राणामृषीणामग्रतः स्थिता
मया पूर्वं हरो दृष्टो इति ते मेनिरे पृथक् । तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम्
भक्त्या परमया राजन्वरं तेषां प्रदत्तवान् । अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः । अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्