ब्रह्मतुंगं समासाद्य शुचिः प्रयतमानसः । ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् । तत्र स्नात्वा नरश्रेष्ठ शक्रलोकमवाप्नुयात्
रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् । स्नात्वा तत्र भवेद्विप्रो विमलश्चंद्रमा इव
अथ पंचनदं गत्वा नियतो नियताशनः । पंचयज्ञानवाप्नोति क्रमशो ये तु कीर्तिताः
ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् । तत्र स्नात्वा न योन्यां वै नरो भरतसत्तम
देव्याः पुत्रो भवेद्राजन्तत्र कुंडलविग्रहः । गवां शतसहस्रस्य फलं चैवाप्नुयान्महत्
गिरिकुंजं समासाद्य त्रिषु लोकेषु विश्रुतम् । पितामहं नमस्कृत्य गोसहस्रफलं लभेत्
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् । अद्यापि यत्र दृश्यंते मत्स्याः सौवर्णराजताः
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् । सर्वपापविशुद्धात्मा गच्छेत्परमिकां गतिम्
नारदउवाच-। वितस्तां च समासाद्य संतर्प्य पितृदेवताः । नरः फलमवाप्नोति वाजपेयस्य भारत
काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च । वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम्
तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात् । सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्
ततो गच्छेत मलदं त्रिषु लोकेषु विश्रुतम् । पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि
चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् । पितॄणामक्षयं दानं प्रवदंति मनीषिणः
गवांशतसहस्रेण राजसूयशतेन च । अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः
ततो निवृत्तो राजेंद्र रुद्रास्पदमथाविशेत् । अभिगम्य महादेवमश्वमेधफलं लभेत्
मणिमंतं समासाद्य ब्रह्मचारी समाहितः । एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्
अथ गच्छेत राजेंद्र देविकां लोकविश्रुताम् । प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ
त्रिशूलपाणेः स्थानं यत्त्रिषुलोकेषु विश्रुतम् । देविकायां नरः स्नात्वा अभ्यर्च्य च महेश्वरम्
यथाशक्ति नरस्तत्र निवेद्य भरतर्षभ । सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसंमतम् । तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत
यजनं याजनं गत्वा तथैव ब्रह्मवालकम् । पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः
अर्द्धयोजनविस्तारां पंचयोजनमायताम् । एतावद्देविकामाहुः पुण्यां देवर्षिसंमताम्
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् । यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः
दीर्घसत्रमुपासंते दीक्षिता नियतव्रताः । गमनादेव राजेंद्र दीर्घसत्रमरिंदम
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः । ततो विनाशनं गच्छेन्नियतो नियताशनः
गच्छंत्यंतर्हिता यत्र मेरुपृष्ठे सरस्वती । चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते
स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् । शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् । शशयानं च राजेंद्र तीर्थमासाद्य दुर्लभम्
शशरूपप्रतिच्छन्ना पुष्करा यत्र भारत । सरस्वत्यां महाभाग अनुसंवत्सरंहिते