एवं ते कथितो राजन्नर्मदागुणसंश्रयः । इतिहासो महापुण्यः श्रवणात्पापनाशनः
युधिष्ठिर उवाच-। अथान्यानि तु तीर्थानि वसिष्ठोक्तानि मे वद । श्रुत्वा यानि च पापानि विलयं यांति नारद
नारद उवाच-। शृणुष्वात्र हि तीर्थानि वसिष्ठोक्तानि पार्थिव । दक्षिणं सिंधुमासाद्य ब्रह्मचारी जितेंद्रियः
अग्निष्टोममवाप्नोति विमानं चाधिरोहति । चर्मण्वतीं समासाद्य नियतो नियताशनः
रंतिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् । ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम्
पृथिव्या यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर । तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतं
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् । पिंगातीर्थमुपस्पृश्य ब्रह्मचारी नराधिप
कपिलानां नरव्याघ्र शतस्य फलमाप्नुयात् । ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम्
यत्र सन्निहितो नित्यं स्वयमेव हुताशनः । देवतानां मुखं वीर अनलोऽनिलसारथिः
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः । अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः
ततो गत्वा सरस्वत्याः सागरस्य च संगमम् । गोसहस्रफलं प्राप्य स्वर्गलोके महीयते
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ । तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः
त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः । विराजति यथा सोमो वाजिमेधं च विंदति
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम । विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् । ततो द्वारवतीं गच्छेन्नियतो नियताशनः
पिंडारके नरः स्नात्वा लभेद्बहुसुवर्णकम्
तस्मिंस्तीर्थे महाराज पद्मलक्षणलक्षिताः । अद्यापि मुद्रा दृश्यंते तदद्भुतमरिंदम
त्रिशूलांकानि पद्मानि दृश्यंते कुरुनंदन । महादेवस्य सान्निध्यं तत्रैव भरतर्षभ
सागरस्य च सिंधोश्च संगमं प्राप्य भारत । तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ । प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा
शंकुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर । अश्वमेधं दशगुणं प्रवदंति मनीषिणः
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ । तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम्
तिमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् । यत्र शक्रादयो देवा उपासंते महेश्वरम्
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् । जन्मप्रभृति पापानि कृतानि नुदते नरः
तिमिरत्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः । तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयात्
जित्वा तत्र महाप्राज्ञ विष्णुना दितिनंदनम् । पुरा शौचं कृतं राजन्हत्वा दैवतकंटकान्
thumb|400px|वसुधारा, स्वयम्भु ततो गच्छेत धर्मज्ञ वसुधारामभिष्टुताम् । गमनादेव तस्यां हि हयमेधमवाप्नुयात्
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः । तर्पयित्वा पितॄन्देवान्विष्णुलोके महीयते
तीर्थं चापि परं तत्र वसूनां भरतर्षभ । तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत्
सिंधुतममिति ख्यातं सर्वपापप्रणाशनम् । तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम्