तत्र पूर्वकर्मबलात्पिशाचः सह वै द्विजः । समीक्ष्य लोमशं राजन्साष्टांगं प्रणिपत्य च
उवाच सूनृतां वाचं बद्ध्वा शिरसि चांजलिम् । महाभाग्योदये विप्र साधूनां संगतिर्भवेत्
गंगादिपुण्यतीर्थेषु यो नरः स्नाति सर्वथा । यः करोति सतां संगं तयोः सत्संगमो वरः
गुरूणां संगमो विप्र दृष्टादृष्टफलो भुवि । स्वर्गदो रोगहारी च किं तमोपहरो मतः
इत्युक्त्वा कथयामास पूर्ववृत्तांतमद्भुतम् । इमा गंधर्वकन्यास्ता मुने सोऽहं द्विजात्मजः
सर्वे पिशाचरूपेण मिथः शापविमोहिताः । दीनाननास्सुतिष्ठामस्तवाग्रे मुनिसत्तम
त्वद्दर्शनेन बालानां निस्तारो नो भविष्यति । सूर्योदये तमस्तोमः किं नु लीयेत पुष्करे
श्रुत्वैतल्लोमशो वाक्यं कृपार्द्रीकृतमानसः । प्रत्युवाच महातेजा दुःखितं तं मुनेः सुतम्
मत्प्रसादाच्च सर्वेषां स्मृतिः सपदि जायताम् । धर्मे च वर्ततां येन मिथः शापो लयं व्रजेत्
पिशाच उवाच- महर्षे कथ्यतां धर्मो मुच्येम येन किल्बिषात् । नायं कालो विलंबस्य शापाग्निर्दारुणो यतः
लोमश उवाच- मया सार्द्धं प्रकुर्वंतु रेवास्नानं विधानतः । शापान्मोक्ष्यति वो रेवा नान्यथा निष्कृतिर्भवेत्
शृणुष्वावहितो विप्र पापनाशो ध्रुवं नृणाम् । रेवास्नानेन जायेत इति मे निश्चिता मतिः
सप्तजन्मकृतं पापं वर्तमानं च पातकम् । रेवास्नानं दहेत्सर्वं तूलराशिमिवानलः
प्रायाश्चित्तं न पश्यंति यस्मिन्पापे पिशाचक । तत्सर्वं नर्मदातोये स्नानमात्रेण नश्यति
ज्ञानकृन्नर्म्मदास्नानमतो मोक्षफला हि सा । हिमवत्पुण्यतीर्थानि सर्वपापहराणि वै
इंद्रलोकप्रदं हीदं निर्मितं ब्रह्मवादिभिः । सर्वकामफला रेवा मोक्षदा परिकीर्तिता
पापघ्नी पापहारिणी सर्वकामफलप्रदा । विष्णुलोकदआप्लावो नार्मदः पापनाशनः
यामुनः सूर्यलोकाय भवेदाप्लाव उत्तमः । सारस्वतोघविध्वंसी ब्रह्मलोकफलप्रदः
विशालफलदा प्रोक्ता विशाला हि पिशाचक । पापेंधनदवाग्निस्तु गर्भहेतुक्रियापहः
विष्णुलोकाय मोक्षाय नार्मदः परिकीर्तितः । सरयूगंडकीसिंधुश्चंद्रभागा च कौशिकी
तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका । कावेरी तुंगभद्रा च अन्याश्चापि समुद्रगाः
तासु रेवा परा प्रोक्ता विष्णुलोकप्रदायिनी । रेवा तु प्राप्यते पुण्यैः पूर्वजन्मकृतैर्द्विज । अपुनर्भवदं तत्र मज्जनं मुनिपुत्रक
गायंति देवाः सततं दिविष्ठा रेवा कदा दृष्टिगता हि नो भवेत् । स्नाता नरा यत्र न गर्भवेदनां पश्यंति तिष्ठंति च विष्णुसन्निधौ
मज्जंति ये प्रत्यहमत्र मानवा रेवासुतो ये बहुपापकंचुकाः । मज्जंति ते नो निरयेषु धर्म्मतः स्वर्गे तु ते चारुचरंति देववत्
तीव्रैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृता पुरा । रेवापिशाचाशु तयोर्द्वयोरभूद्रेवा वरा तत्र च मोक्षसाधिका
नारद उवाच- एतच्छ्रुत्वा वचस्तस्य लोमशस्य पिशाचकाः । तेन सार्द्धं ययुः शीघ्रं रेवामज्जनहेतवे
ततो दैवात्समुत्पन्नो रेवारोधसि मारुतः । तेषां प्रवाहस्पृष्टानां गात्रे जलकणप्रदः
रेवाजलकणस्पर्शात्पैशाच्यात्ते विमोचिताः । तत्क्षणाद्दिव्यवपुषः प्रशशंसुश्च नर्मदाम्
ततो लोमशवाक्येन ताश्च गंधर्वकन्यकाः । परिणीताः सुखं तेन विप्रेण नर्मदातटे
उवास सुचिरं कालं स्नानपानावगाहनैः । अर्चित्वा नर्मदामत्र विष्णुलोकं गताश्च ते