वांच्छितं लभते नित्यं श्रीनृसिंह प्रसादतः । श्रीनृसिंह महद्रूप कालकोटिदुरासद
भैरवेश हरार्तिघ्न बालरूप नमोस्तु ते । श्रीनृसिंहाय रूपाय बालाय बालरूपिणे
व्यापकाय सुनंदाय स्वात्मप्रकट रूपिणे । सर्वजीवात्मकायैव विश्वेशाय स्वरात्मने
मार्तंड मंडलस्थाय दयासिंधो नमोस्तु ते । चतुर्विंशस्वरूपाय कालरुद्राग्निरूपिणे
जगदेकस्वरूपाय नृसिंहाय नमोस्तु ते । भाले दधार यो देवो नृसिंहो वीरभद्र जित्
द्वादशादित्यबिंबानि सुतप्तानि प्रमाणतः । तत्र सिंधु महापुण्या नदी रम्या विशेषतः
तस्याः समीपे नगरं वर्त्ततेऽद्यापि सुंदरि । मौलिस्तानेति विख्यातं सर्वदा देवनिर्मितम्
वसतिर्वर्त्तते तत्र हारीतस्य महात्मनः । लीलावती तु तत्रैव तिष्ठते नात्र संशयः
प्रतिशब्दो भवेत्तत्र सिंधुनद्याः समीपतः । कलौ युगे तु संप्राप्ते म्लेच्छा वै पापचारिणः
निवसंति तु तत्रैव बहवो नात्र संशयः । नृसिंहजन्मनि यथा शब्दोऽभूदद्भुतः परः
नृसिंहेति नृसिंहेति य उच्चैर्नदते नरः । तादृशः प्रतिशब्दो वै जायते नगनंदिनि
ब्रह्महा हेमहारी वा सुरापो गुरुतल्पगः । सिंधौ गत्वा विशेषेण स्नानं कुर्वंति ये जनाः
मुच्यते नात्र संदेहः श्रीनृसिंह प्रसादतः । दशारात्रिप्रमाणेन मानवा ये वसंति हि
ते ज्ञेयाः पुण्यकर्माणो नासत्यं मामकं वचः । निवसंति कलौ तत्र वर्णा ये द्विजपूर्वकाः
म्लेच्छवत्तेऽपि विज्ञेया वेदबाह्याः सुरोत्तमैः । मांसं खादंति ते तत्र मद्यपानं पपुः सदा
अतो ह्यधर्मरूपास्ते पापिष्ठा नात्र संशयः । संध्याहीना यथा विप्रा वेदबाह्यास्तथैव च
निवसंति पुरे तस्मिन्पश्चिमायां सुरेश्वरि । एकमेव परं तीर्थं नृसिंहाख्यं सुविस्तरम् । यं श्रुत्वा मुच्यते पापान्नरः सद्यो न संशयः
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे नृसिंहोत्पत्तिर्नाम चतुःसप्तत्यधिकशततमोऽध्यायः
श्रीभगवानुवाच । आदिमस्यैवमाख्यानमुदीरितमनुत्तमम् । शृणु माहात्म्यमन्येषामध्यायानामपींदिरे
दक्षिणस्यां दिशि श्रीमानासीदाम्नायवादिनाम् । पुरे पुरंदराह्वाने देवशर्मेति विश्रुतः
अर्चितातिथिराम्नातो वेदशास्त्रविशारदः । आहर्ता क्रतुसंघानां तापसानां प्रियः सदा
देवान्संतर्पयामास हव्यैर्हुतवहं चिरम् । न चोपलेभे धर्मात्मा शांतिमेकांतिकीं ततः
निःश्रेयसं स जिज्ञासुस्तापसाननुवासरम् । सिषेवे सत्यसंकल्पाननल्पैरेव कल्पकैः
एवमाचरतस्तस्य काले महति गच्छति । मुक्तकर्मा ततः कश्चित्प्रादुरासीत्पुरा भुवि
अनुभूतनिराकांक्षी नासाग्रन्यस्तलोचनः । शांतचेताः परं ब्रह्म ध्यायन्नानंदनिर्भरः
पादौ तस्योपसंगृह्य प्रणतेनांतरात्मना । चकार विधिवत्तस्मै विद्वानतिथिसत्क्रियाम्
तं च शुद्धेन भावेन परितुष्टं तपस्विनम् । प्रणतः परिपप्रच्छ निर्वाणस्थितिमात्मनः
स तस्मै कथयामास पुरेऽसौ पुरनामनि । मित्रवंतमजापालमुपदेष्टारमात्मवित्
स चाभिवंद्य तत्पादावेत्यसौ पुरमूर्जितम् । तस्योत्तरदिशोभागे ददर्श विपुलं वनम्
मारुतांदोलितानेक कुसुमामोदसुंदरम् । उन्मत्तभ्रमरोद्गीत नादापूरितदिङ्मुखम्