अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः । पुंसो लोकोभयोः सौख्यं नाशमेतीति नः श्रुतम्
तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम् । इत्युक्त्वापि च ता बाला निःश्वसंत्यः क्रुधाकुलाः
तदेवान्योन्यसंरंभात्तस्मिन्सरसि पार्थिव । ताः कन्या ब्रह्मचारी च सर्वे पैशाच्यमागताः
स पिशाचः पिशाच्यस्ताः क्रंदमानाः सुदारुणम् । क्षपयंति विपाकांस्तान्पूर्वोपात्तस्य कर्म्मणः
स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम् । स्वच्छायामिव दुर्वारं देवानामपि पार्थिव
क्रंदंति पितरस्तासां मातरस्तत्र तत्र च । भ्रातरश्चैव बालानां दैवं हि दुरतिक्रमम्
अतऊर्ध्वं पिशाचास्ते आहारार्थं सुदुःखिताः । इतस्ततश्च धावंतो वसंति सरसस्तटे
नारद उवाच- एवं बहुतिथे काले लोमशो मुनिसत्तमः । आगतश्च महाभागस्तत्र यादृच्छिको मुनि
तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः । धावंतो ह्यत्तुकामास्ते मिलित्वा यूथवर्तिनः
दह्यमानास्तु तीव्रेण तेजसा लोमशस्य तु । असमर्थाः पुरः स्थातुं ते सर्वे दूरतः स्थिताः
तत्र पूर्वकर्मबलात्पिशाचः सह वै द्विजः । समीक्ष्य लोमशं राजन्साष्टांगं प्रणिपत्य च
उवाच सूनृतां वाचं बद्ध्वा शिरसि चांजलिम् । महाभाग्योदये विप्र साधूनां संगतिर्भवेत्
गंगादिपुण्यतीर्थेषु यो नरः स्नाति सर्वथा । यः करोति सतां संगं तयोः सत्संगमो वरः
गुरूणां संगमो विप्र दृष्टादृष्टफलो भुवि । स्वर्गदो रोगहारी च किं तमोपहरो मतः
इत्युक्त्वा कथयामास पूर्ववृत्तांतमद्भुतम् । इमा गंधर्वकन्यास्ता मुने सोऽहं द्विजात्मजः
सर्वे पिशाचरूपेण मिथः शापविमोहिताः । दीनाननास्सुतिष्ठामस्तवाग्रे मुनिसत्तम
त्वद्दर्शनेन बालानां निस्तारो नो भविष्यति । सूर्योदये तमस्तोमः किं नु लीयेत पुष्करे
श्रुत्वैतल्लोमशो वाक्यं कृपार्द्रीकृतमानसः । प्रत्युवाच महातेजा दुःखितं तं मुनेः सुतम्
मत्प्रसादाच्च सर्वेषां स्मृतिः सपदि जायताम् । धर्मे च वर्ततां येन मिथः शापो लयं व्रजेत्
पिशाच उवाच- महर्षे कथ्यतां धर्मो मुच्येम येन किल्बिषात् । नायं कालो विलंबस्य शापाग्निर्दारुणो यतः
लोमश उवाच- मया सार्द्धं प्रकुर्वंतु रेवास्नानं विधानतः । शापान्मोक्ष्यति वो रेवा नान्यथा निष्कृतिर्भवेत्
शृणुष्वावहितो विप्र पापनाशो ध्रुवं नृणाम् । रेवास्नानेन जायेत इति मे निश्चिता मतिः
सप्तजन्मकृतं पापं वर्तमानं च पातकम् । रेवास्नानं दहेत्सर्वं तूलराशिमिवानलः
प्रायाश्चित्तं न पश्यंति यस्मिन्पापे पिशाचक । तत्सर्वं नर्मदातोये स्नानमात्रेण नश्यति
ज्ञानकृन्नर्म्मदास्नानमतो मोक्षफला हि सा । हिमवत्पुण्यतीर्थानि सर्वपापहराणि वै
इंद्रलोकप्रदं हीदं निर्मितं ब्रह्मवादिभिः । सर्वकामफला रेवा मोक्षदा परिकीर्तिता
पापघ्नी पापहारिणी सर्वकामफलप्रदा । विष्णुलोकदआप्लावो नार्मदः पापनाशनः
यामुनः सूर्यलोकाय भवेदाप्लाव उत्तमः । सारस्वतोघविध्वंसी ब्रह्मलोकफलप्रदः
विशालफलदा प्रोक्ता विशाला हि पिशाचक । पापेंधनदवाग्निस्तु गर्भहेतुक्रियापहः
विष्णुलोकाय मोक्षाय नार्मदः परिकीर्तितः । सरयूगंडकीसिंधुश्चंद्रभागा च कौशिकी