इत्थं युगसमां रात्रिमनयंस्ता वरस्त्रियः । कथंचिद्धारणं कृत्वा विह्वलाः सज्वरा इव
प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम् । विज्ञाप्य मातरं स्वांस्वां गौरीं पूजयितुं गताः
स्नात्वा तेन विधानेन पुष्पैर्धूपैस्तथा पुनः । विधाय पूजनं देव्या गायंत्यस्तत्र ताः स्थिताः
एतस्मिन्नंतरे विप्रः स्नातुं सोऽपि समागतः । पितुराश्रमतस्तस्मादच्छोदेऽत्र सरोवरे
मित्रं दृष्ट्वैव रात्र्यंते पद्मिन्य इव कन्यकाः । तत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम्
गत्वा तत्रैव ताः कन्या समीपं ब्रह्मचारिणः । सव्यापसव्यबंधेन भुजपाशं च चक्रिरे
गतोऽसि प्रिय पूर्वेद्युर्गंतुमद्य न लभ्यते । वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्ति विचारणा
इत्युक्तो ब्राह्मणः प्राह प्रहसन्बाहुपाशगः । युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः
प्रथमाश्रमनिष्ठस्य किंतु नश्येत मे व्रतम् । विद्याभ्यसनशीलस्य नाभूत्पारं गुरोः कुले
आश्रमे यत्र यो धर्मो रक्षणीयः सुपंडितैः । विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः
आकर्ण्य विप्रवाक्यानि विप्रमूचुर्वरस्त्रियः । सकलध्वनिसोत्कंठ्यो कोकिलाइव माधवे
धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः । इत्येवं निश्चयज्ञास्ते वर्णयंति विपश्चितः
सकामो धर्मबाहुल्यात्पुरतस्ते समुत्थितः । सेव्यतां विविधैर्भोगैः स्वच्छाभूमिरियं यतः
श्रुत्वा तद्वचनं तासां प्राह गंभीरया गिरा । तथ्यं वो वचनं किंतु ममाप्यावश्यकं व्रतम्
प्राप्यानुज्ञां गुरोः कुर्वे विवाहकर्म नान्यथा । इत्युक्ताः पुनरूचुस्ताः स्फुटं मूढोऽसि सुंदर
सिद्धौषधं ब्रह्मधिया रसायनं सिद्धिर्निधिः साधुकुला वरांगनाः । मंत्रस्तथा सिद्धरसश्च धर्मतो मुने निषेव्याः सुधिया समागताः
कार्यं नु दैवाद्यदि सिद्धिमागतं तस्मिन्नुपेक्षां न च यांति नीतिगाः । यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते
विषादप्यमृतं ग्राह्यममेध्यादपि कांचनम् । नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि
सांद्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ता सुगिरः स्वयंवराः । कन्या सुरूपाः खलु चारुयौवना धन्या लभंतेऽत्र नरास्तु नेतरे
क्व वयं सुरसुंदर्य्यः क्व भवांस्तापसो बटुः । दुर्घटस्य विधानेन मन्ये धातैव पंडितः
तस्मादस्मानिदानीं तु स्वीकुर्य्यात्मंगलं भवान् । गांधर्वेण विवाहेन अन्यथा नोपजीवनम्
श्रुत्वा वाक्यं ततः प्राह ब्राह्मणो धर्मवित्तमः । भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः
धर्मश्चार्थश्चकामश्च मोक्षश्चैतच्चतुष्टयम् । यथोक्तं फलदं ज्ञेयं विपरीतं तु निष्फलम्
नाकालेऽहं व्रती कुर्यामतो दारपरिग्रहम् । न क्रिया फलमाप्नोति क्रियाकालं न वेत्ति यः
यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम् । तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम्
एवं ज्ञात्वाशयं तस्य समीक्ष्यैव परस्परम् । करात्करं विमुच्याथ जग्राहांघ्रिं प्रमोहिनी
भुजौ जगृहतुस्तस्य सुशीला सुस्वरा तथा । आलिलिंग सुतारा च वक्त्रं चुंबति चंद्रिका
तथापि निर्विकारोऽसौ प्रलयानलसन्निभः । शशाप ब्रह्मचारी ताः क्रोधेनात्यंतमूर्छितः
पिशाच्य इव मां लग्ना तत्पिशाच्यो भविष्यथ । एवं तेनाशु शप्तास्तास्तं त्यक्त्वा पुरतः स्थिताः
किमेतच्चेष्टितं पापं ह्यनागसि विचेष्टया । प्रियंकृतोऽप्रियंकृत्वा धिक्त्वां धर्मकृतांतकम्