मोहयंति मदयंति रागिणं योषितः स्वललितैर्मनोहरैः । मोदयंति मदयंति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः
मांसरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ । कामिनस्तु परिकल्प्य चारुतामाविशंति सुविमूढचेतसः
दारुणा हि परिकीर्तितांगना साधुभिर्विमलबुद्धिभिर्बुधैः । यावदेव न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम्
समीपं तस्य यावन्न आगच्छंति वरस्त्रियः । वैष्णवेन प्रभावेण तावदंतर्दधे द्विजः
तस्य योगबलाद्भूप गतस्यादर्शनं तदा । दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः
वित्रस्तनयना बाला कुरंग्य इव कातराः । संक्रांतनयनाः शून्या ददृशुस्ता दिशोदश
कन्या ऊचुः-। इंद्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः । दृष्टोऽप्यदृष्टरूपोभूदित्यूचुस्ताः परस्परम्
व्याप्तं च हृदयं तासां तदैव विरहाग्निना । ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम्
त्यजेंद्रजालिकां विद्यां कांत दर्शय सत्वरम् । आत्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम्
हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः कुतः । ज्ञातं महानुसंतापहेतुर्नः स्वं विनिर्मितः
कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मतिः । कच्चित्क्रूरोऽसि हे कांत कच्चिन्मुष्णासि नो मनः
कच्चिन्न प्रत्ययोस्मा सु कच्चिदस्मान्परीक्षसे । कच्चिन्निर्ममता शीलः कच्चिन्मायाविशारदः
कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम् । कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः
कच्चिद्विनापराधं तु किमस्मासु प्रकुप्यसे । कच्चिद्दुःखं न जानासि परेषां विप्रलंभनम्
त्वद्दर्शनं विना नष्टा हृदयेश्वर सांप्रतम् । न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया
वयं च नीयतां तत्र शीघ्रं यत्र गतो भवान् । त्वद्दर्शनहरो धाता व्यधान्मोदांकुरच्छिदाम्
सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा । पर्य्यंतं न प्रपश्यंति कस्य चित्सुजना जनाः
इत्थं विलप्यताः कन्याः प्रतीक्ष्य च बहुक्षणम् । पितुर्भयाद्गृहं गंतुं शीघ्रमारेभिरे ततः
तत्प्रेमनिगडैर्बद्धा भृशं विरहविक्लवाः । कथंचिद्धैर्यमालंब्य ताः स्वंस्वं गृहमागताः
आगत्य पतिताः सर्वा मातॄणां तु समीपतः । किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत्
क्रीडंत्यः किन्नरीभिस्तु सार्द्धं संगतकं यदा । संस्थितास्तेन न ज्ञातो दिवसोऽच्छोदसरोवरे
पथि श्रांता वयं मातः संतापस्तेन नस्तनौ । मोहेन महता वक्तुं न केनाप्युत्सहामहे
इत्युक्त्वा लुठितास्तत्र मणिभूमौ कुमारिकाः । आकारं गोपयंत्यस्ता मुग्धा जल्पंति मातृभिः
काचिन्नर्तयति क्रीडामयूरं न मुदा तदा । न पाठयति तं कीरं पंजरेऽन्या कुतूहलात्
लालयेन्नकुलं नान्या नोल्लापयति सारिकाम् । अपरातीव संमुग्धा नैव खेलति सारसैः
भेजिरे न विनोदं ता रेमिरे नैव मंदिरे । ऊचिरे बांधवैर्नालं वीणावाद्यं न चक्रिरे
कल्पद्रुमप्रसूनं यत्सर्वं तच्चानलोपमम् । मंदारकुसुमामोदि न पपुर्मधुरं मधु
योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः । अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः
चंद्रकांतमणिच्छन्ने स्रवद्वारिणि कंदरे । क्षणं वातायने स्थित्वा जलयंत्रगृहेक्षणम्
रचयंति क्षणं शय्यां दीर्घिकां भोजिनीदलैः । वीज्यमानाः सखीभिस्ताः शीतलैर्नलिनीदलैः