यद्ययं कामदेवो हि रतिहीनः कथं भवेत् । अथवाह्यश्विनौ देवौ तावुभौ युगचारिणौ
गंधर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक् । ऋषिपुत्रोऽथवा कश्चित्कश्चिद्वा मनुजोत्तमः
अस्ति वा कश्चिदेवायं धात्रा सृष्टो हि नः कृते । यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः
तथास्माकं कुमारीणां गौर्यानीतो वरोत्तमः । करुणाजलकल्लोल लब्धाद्री र्कृ!तचित्तया
मया वृतस्त्वया चायं त्वया वृतस्तथानया । एवं पंचसुकन्यासु वदंतीषु नृपोत्तम
श्रुत्वा तद्वचनं तत्र कृतमाध्याह्निकक्रियः । चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत्
गाधिसंभवपराशरादयः कंडुदेवलमुखाश्च ये द्विजाः । तेऽपि योगि बलिनो विमोहिताः लीलया तदबलाभिरद्भुतम्
योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः । धन्विना मकरकेतुना हतः कस्य नो पतति वामनो मृगः
तावदेव नयधीर्विराजते तावदेव जनताभयं भवेत् । तावदेव धृतचित्तता भृशं तावदेव गणना कुलस्य च
तावदेव तपसः प्रगल्भता तावदेव शमसेवनं नृणाम् । यावदेव ललनेक्षणा स वैर्माद्यते द्रुतमदैर्न पूरुषः
मोहयंति मदयंति रागिणं योषितः स्वललितैर्मनोहरैः । मोदयंति मदयंति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः
मांसरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ । कामिनस्तु परिकल्प्य चारुतामाविशंति सुविमूढचेतसः
दारुणा हि परिकीर्तितांगना साधुभिर्विमलबुद्धिभिर्बुधैः । यावदेव न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम्
समीपं तस्य यावन्न आगच्छंति वरस्त्रियः । वैष्णवेन प्रभावेण तावदंतर्दधे द्विजः
तस्य योगबलाद्भूप गतस्यादर्शनं तदा । दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः
वित्रस्तनयना बाला कुरंग्य इव कातराः । संक्रांतनयनाः शून्या ददृशुस्ता दिशोदश
कन्या ऊचुः-। इंद्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः । दृष्टोऽप्यदृष्टरूपोभूदित्यूचुस्ताः परस्परम्
व्याप्तं च हृदयं तासां तदैव विरहाग्निना । ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम्
त्यजेंद्रजालिकां विद्यां कांत दर्शय सत्वरम् । आत्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम्
हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः कुतः । ज्ञातं महानुसंतापहेतुर्नः स्वं विनिर्मितः
कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मतिः । कच्चित्क्रूरोऽसि हे कांत कच्चिन्मुष्णासि नो मनः
कच्चिन्न प्रत्ययोस्मा सु कच्चिदस्मान्परीक्षसे । कच्चिन्निर्ममता शीलः कच्चिन्मायाविशारदः
कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम् । कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः
कच्चिद्विनापराधं तु किमस्मासु प्रकुप्यसे । कच्चिद्दुःखं न जानासि परेषां विप्रलंभनम्
त्वद्दर्शनं विना नष्टा हृदयेश्वर सांप्रतम् । न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया
वयं च नीयतां तत्र शीघ्रं यत्र गतो भवान् । त्वद्दर्शनहरो धाता व्यधान्मोदांकुरच्छिदाम्
सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा । पर्य्यंतं न प्रपश्यंति कस्य चित्सुजना जनाः
इत्थं विलप्यताः कन्याः प्रतीक्ष्य च बहुक्षणम् । पितुर्भयाद्गृहं गंतुं शीघ्रमारेभिरे ततः
तत्प्रेमनिगडैर्बद्धा भृशं विरहविक्लवाः । कथंचिद्धैर्यमालंब्य ताः स्वंस्वं गृहमागताः
आगत्य पतिताः सर्वा मातॄणां तु समीपतः । किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत्