वैडूर्यशुद्धस्फटिकप्रकुट्टिमे स्नात्वा तु घट्टे परिधाय चांबरम् । मौनेन च स्थंडिलपिंडिकामयीं सुवर्णमुक्ताभरणां विनिर्ममुः
समर्चितां चंदनगंधकुंकुमैरभ्यर्च्य गौरीं वरपंकजादिभिः । नानोपहारैः शुभभक्तिभाविता लास्यप्रयोगैर्ननृतुः कुमारिकाः
गांधर्वमाश्रित्य परं स्वरं ततो गेयं स्वभावध्वनिभिः समूर्छनम् । एणीदृशस्ताः प्रजगुः कलाक्षरं तारप्रवृद्धं गतिभिश्च सुस्वरम्
तस्मिन्सुभावे रसवर्षहर्षं कन्यास्वलं निर्भरचित्तवृत्तिषु । अच्छोदतीर्थे प्रवरे तदागतः स्नातुं मुनेर्वेदनिधेः सुतोग्रजः
रूपेण निःसीमतरो वराननः प्रफुल्लपद्मायतलोचनो युवा । विस्तीर्णवक्षाः सुभुजोऽतिसुंदरः श्यामच्छविः कामइवापरो हि सः
स ब्रह्मचारी सुशिखो हि शोभते दंडेन युक्तो धनुषेव मन्मथः । एणाजिनप्रावरणः समुद्रधृग्हेमाभमौंजीकटिमेखलः परः
तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे । जहृषुः कौतुकाविष्टा अयं नो भवितातिथिः
संत्यक्तगीतनृत्यास्तास्तस्यालोकनलालसाः । हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः
पश्यपश्येति जल्पंत्यो मुग्धाः पंच ससंभ्रमम् । तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः
पुनःपुनस्तमभ्यर्च्य नयनैः पंकजैरिव । पश्चाद्विचारमारब्धमप्सरोभिः परस्परम्
यद्ययं कामदेवो हि रतिहीनः कथं भवेत् । अथवाह्यश्विनौ देवौ तावुभौ युगचारिणौ
गंधर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक् । ऋषिपुत्रोऽथवा कश्चित्कश्चिद्वा मनुजोत्तमः
अस्ति वा कश्चिदेवायं धात्रा सृष्टो हि नः कृते । यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः
तथास्माकं कुमारीणां गौर्यानीतो वरोत्तमः । करुणाजलकल्लोल लब्धाद्री र्कृ!तचित्तया
मया वृतस्त्वया चायं त्वया वृतस्तथानया । एवं पंचसुकन्यासु वदंतीषु नृपोत्तम
श्रुत्वा तद्वचनं तत्र कृतमाध्याह्निकक्रियः । चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत्
गाधिसंभवपराशरादयः कंडुदेवलमुखाश्च ये द्विजाः । तेऽपि योगि बलिनो विमोहिताः लीलया तदबलाभिरद्भुतम्
योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः । धन्विना मकरकेतुना हतः कस्य नो पतति वामनो मृगः
तावदेव नयधीर्विराजते तावदेव जनताभयं भवेत् । तावदेव धृतचित्तता भृशं तावदेव गणना कुलस्य च
तावदेव तपसः प्रगल्भता तावदेव शमसेवनं नृणाम् । यावदेव ललनेक्षणा स वैर्माद्यते द्रुतमदैर्न पूरुषः
मोहयंति मदयंति रागिणं योषितः स्वललितैर्मनोहरैः । मोदयंति मदयंति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः
मांसरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ । कामिनस्तु परिकल्प्य चारुतामाविशंति सुविमूढचेतसः
दारुणा हि परिकीर्तितांगना साधुभिर्विमलबुद्धिभिर्बुधैः । यावदेव न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम्
समीपं तस्य यावन्न आगच्छंति वरस्त्रियः । वैष्णवेन प्रभावेण तावदंतर्दधे द्विजः
तस्य योगबलाद्भूप गतस्यादर्शनं तदा । दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः
वित्रस्तनयना बाला कुरंग्य इव कातराः । संक्रांतनयनाः शून्या ददृशुस्ता दिशोदश
कन्या ऊचुः-। इंद्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः । दृष्टोऽप्यदृष्टरूपोभूदित्यूचुस्ताः परस्परम्
व्याप्तं च हृदयं तासां तदैव विरहाग्निना । ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम्
त्यजेंद्रजालिकां विद्यां कांत दर्शय सत्वरम् । आत्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम्
हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः कुतः । ज्ञातं महानुसंतापहेतुर्नः स्वं विनिर्मितः