ततः प्रार्थना मंत्रः । मद्वंशे येन राजा ता ये भविष्याश्च मानवाः । तानुद्धरस्व देवेश दुःखदाद्भवसागरात्
पातकार्णवमग्नस्य व्याधिभिश्चांबुचारिभिः । जीवैस्तु परिभूतस्य महादुःखगतस्य मे
करावलंबनं देहि शेषशायी जगत्पते । व्रतेनानेन देवेश भुक्तिमुक्तिप्रदो भव
एवं प्रार्थ्य ततो देवं विसृज्य च यथाविधि । उपहारादिकं सर्वे आचार्याय निवेदयेत्
दक्षिणाभिश्च संतोष्या ब्राह्मणांश्च विसर्जयेत् । मम ध्यान समायुक्तो भुंजीत सह बंधुभिः
अकिंचनोपि नियतमुपोष्यति चतुर्दशीम् । सप्त जन्म कृतात्पापान्मुच्यते नात्र संशयः
य इदं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम् । तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति
पवित्रं परमं गुह्यं कीर्तयेद्यस्तु मानवः । सर्वकामानवाप्नोति व्रतस्यास्य फलं सदा
य इदं कुरुते शक्त्या काले मध्याह्न संज्ञके । लीलावत्या सह ऋषिं श्रीनृसिंह प्रसादतः
पूजयेत्परया भक्त्या मुक्तिं प्राप्नोति शाश्वतीम् । तस्मिन्क्षेत्रे तु यो गत्वा श्रीनृसिंहं प्रपूजयेत्
वांच्छितं लभते नित्यं श्रीनृसिंह प्रसादतः । श्रीनृसिंह महद्रूप कालकोटिदुरासद
भैरवेश हरार्तिघ्न बालरूप नमोस्तु ते । श्रीनृसिंहाय रूपाय बालाय बालरूपिणे
व्यापकाय सुनंदाय स्वात्मप्रकट रूपिणे । सर्वजीवात्मकायैव विश्वेशाय स्वरात्मने
मार्तंड मंडलस्थाय दयासिंधो नमोस्तु ते । चतुर्विंशस्वरूपाय कालरुद्राग्निरूपिणे
जगदेकस्वरूपाय नृसिंहाय नमोस्तु ते । भाले दधार यो देवो नृसिंहो वीरभद्र जित्
द्वादशादित्यबिंबानि सुतप्तानि प्रमाणतः । तत्र सिंधु महापुण्या नदी रम्या विशेषतः
तस्याः समीपे नगरं वर्त्ततेऽद्यापि सुंदरि । मौलिस्तानेति विख्यातं सर्वदा देवनिर्मितम्
वसतिर्वर्त्तते तत्र हारीतस्य महात्मनः । लीलावती तु तत्रैव तिष्ठते नात्र संशयः
प्रतिशब्दो भवेत्तत्र सिंधुनद्याः समीपतः । कलौ युगे तु संप्राप्ते म्लेच्छा वै पापचारिणः
निवसंति तु तत्रैव बहवो नात्र संशयः । नृसिंहजन्मनि यथा शब्दोऽभूदद्भुतः परः
नृसिंहेति नृसिंहेति य उच्चैर्नदते नरः । तादृशः प्रतिशब्दो वै जायते नगनंदिनि
ब्रह्महा हेमहारी वा सुरापो गुरुतल्पगः । सिंधौ गत्वा विशेषेण स्नानं कुर्वंति ये जनाः
मुच्यते नात्र संदेहः श्रीनृसिंह प्रसादतः । दशारात्रिप्रमाणेन मानवा ये वसंति हि
ते ज्ञेयाः पुण्यकर्माणो नासत्यं मामकं वचः । निवसंति कलौ तत्र वर्णा ये द्विजपूर्वकाः
म्लेच्छवत्तेऽपि विज्ञेया वेदबाह्याः सुरोत्तमैः । मांसं खादंति ते तत्र मद्यपानं पपुः सदा
अतो ह्यधर्मरूपास्ते पापिष्ठा नात्र संशयः । संध्याहीना यथा विप्रा वेदबाह्यास्तथैव च
निवसंति पुरे तस्मिन्पश्चिमायां सुरेश्वरि । एकमेव परं तीर्थं नृसिंहाख्यं सुविस्तरम् । यं श्रुत्वा मुच्यते पापान्नरः सद्यो न संशयः
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे नृसिंहोत्पत्तिर्नाम चतुःसप्तत्यधिकशततमोऽध्यायः
श्रीभगवानुवाच । आदिमस्यैवमाख्यानमुदीरितमनुत्तमम् । शृणु माहात्म्यमन्येषामध्यायानामपींदिरे
दक्षिणस्यां दिशि श्रीमानासीदाम्नायवादिनाम् । पुरे पुरंदराह्वाने देवशर्मेति विश्रुतः