तं दृष्ट्वा सर्वतीर्थानि दृष्टानि स्युर्न संशयः । सर्वपापविनिर्मुक्तो यत्र रुद्र सः गच्छति
नर्मदासंगमं यावद्यावच्चामरकंटकम् । तत्रांतरे महाराजन्तीर्थकोट्योदकस्थिताः
तीर्थात्तीर्थाटनं चर्या ऋषिकोटिनिषेविता । अग्निहोत्रैश्च दिव्यांशैः सर्वैर्ज्ञानपरायणैः
सेवितास्तेन राजेंद्र ईप्सितार्थप्रदायिकाः । यश्चेदं वै पठेन्नित्यं शृणुयाद्वापि भक्तितः
तं तु तीर्थानि सर्वाणि अभिषिंचंति पांडव । नर्मदा च सदा प्रीता भवेद्वै नात्र संशयः
प्रीतस्तस्य भवेद्रुद्रो मार्कंडेयो महामुनिः । वंध्या च लभते पुत्रान्दुर्भगा सुभगाभवेत्
कुमारीं लभते भर्त्ता यच्च यो वाञ्छते फलम् । तदेव लभते सर्वं नात्र कार्या विचारणा
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् । वैश्यस्तु लभते धान्यं शूद्रः प्राप्नोति सद्गतिम्
मूर्खस्तु लभते विद्यां त्रिसंध्यं यः पठेन्नरः । नरकं च न पश्येत वियोनिं च न गच्छति
नारद उवाच- एवं ते कथितं राजन्नर्मदातीर्थमुत्तमम् । पुरा गंधर्वकन्यानां शापजं भयमुल्बणम्
नाशितं तन्महाराज रेवाजलकणाग्निना । रेवाजलकणस्पर्शान्मुक्तो भवति मानवः
युधिष्ठिर उवाच- भगवन्बहुकन्याभिः शापो लंभि कथं कुतः । कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः
कथं रेवाजलस्पर्शाद्विपाकाच्छापसंभवात् । विमुक्ताः कुत्र ताः सस्नुः सर्वं मे कथय प्रभो
नर्मदातीर्थमाहात्म्यं चमत्कारकरं भवेत् । श्रवणादपि पापानां मलनाशनमुच्यते
नर्मदानर्मदाशब्दो येन केनचिदुच्यते । तस्य स्याच्छाश्वती मुक्तिर्यावदाचंद्र तारकम्
व्याहृतं भवता पूर्वं रेवामाहात्म्यमुत्तमम् । तथापि चरितं साधो यदेतत्तन्निगद्यताम्
अथ चोत्तमवार्ताया सेवितव्या मनीषिभिः । अतः पृच्छामि विप्रेंद्र रेवामाहात्म्यमुत्तमम् । इतिहासं वद विभो कन्यानां चरितोज्ज्वलम्
नारद उवाच- श्रूयतां राजशार्दूल धर्मगर्भापरा कथा । यथारणिर्वह्निगर्भा धर्म्मस्तु ब्रह्मसूरिव
गंधर्वः शुकसंगीतिस्तस्य कन्या प्रमोहिनी । सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः
सुतारा चंद्रकांतस्य चंद्रिका सुप्रभस्य च । इमानि वरनामानि तासामप्सरसां नृप
कुमार्यः पंच सर्वास्ता वयसा सुभगाः पुनः । भाषंते च मिथस्तास्तु भगिन्य इव सर्वदा
चंद्रादिव विनिष्क्रांताश्चंद्रिका इव सोज्ज्वलाः । चंद्राननाः सुकेश्यश्च चंद्रकांताइवोज्ज्वलाः
देवेष्वेता विलासिन्यः कौमुद्यः कैरवेष्विव । लावण्यपिंडसंभूता दिव्यरूपा मनोहराः
उद्भिन्नकुचपद्मिन्यः केतक्य इव माधवे । उत्पन्नयौवनैः कांता वल्लीव नवपल्लवैः
हेमगौराश्च हेमाभा हेमाभरणभूषिताः । हेमचंपकमालिन्यो हेमच्छविसुवाससः
स्वरग्रामावलीहासु विविधा मूर्च्छनासु च । तालवाद्यविनोदेषु वेणुवीणाप्रवादने
मृदंगनादसंभिन्नलास्यमध्यलयेषु च । चित्रादिषु विनोदेषु कलासु च विशारदाः
एवंभूताश्च ताः कन्या मुमुहुः क्रीडनैर्वरैः । पितृभिर्लालिताः सर्वाश्चेरुश्च धनदालये
कौतुकादेकदा पंच मिलित्वा मासि माधवे । कन्या मंदारपुष्पाणि विचिन्वंत्यो वनाद्वनम्
गौरीं समाराधयितुं स्वरांगनाः कदाचिदच्छोदसरोवरं ययुः । हेमांबुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह