कन्याऋद्धिं च यः सेवेत्कन्यादानं प्रयच्छति । तीर्थं तत्र महाराज दशकन्येति विश्रुतम्
तत्र स्नात्वार्च्चयेद्देवं सर्वपापैः प्रमुच्यते । ततो गच्छेत राजेंद्र स्वर्गबिंदुरिति श्रुतम्
तत्र स्नात्वा नरो राजन्दुर्गतिं च न पश्यति । अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत्
क्रीडते नागलोकस्थोऽप्सरोभिः सह मोदते । ततो गच्छेत राजेंद्र नरकं तीर्थमुत्तमम्
तत्र स्नात्वार्च्चयेद्देवं नरकं च न गच्छति । भारभूतं ततो गच्छेदुपवासपरायणः
एतत्तीर्थं समासाद्य अवतारं तु शांभवम् । अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते
तस्मिंस्तीर्थे नरः स्नात्वा भारभूते महात्मनः । यत्रतत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः
कार्तिकस्य तु मासस्य अर्चयित्वा महेश्वरम् । अश्वमेधाच्छतगुणं प्रवदंति मनीषिणः
दीपकानां शतं कृत्वा घृतपूर्णं तु दापयेत् । विमानैः सूर्यसंकाशैर्व्रजते यत्र शंकरः
वृषभं यः प्रयच्छेत शंखकुंदेंदु संनिभम् । वृषयुक्तेन यानेन रुद्रलोकं स गच्छति
चरुमेकं तु यो दद्यात्तस्मिंस्तीर्थे नराधिप । पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च
यथाशक्त्यनुराजेंद्र भोजयेत्सहदक्षिणम् । तस्यतीर्थप्रभावेण सर्वं कोटिगुणं भवेत्
नर्मदाया जलं सिक्त्वा अर्चयित्वा वृषध्वजम् । दुर्गतिं च न पंश्यंति तस्य तीर्थप्रभावतः
एतत्तीर्थं समासाद्य यस्तुप्राणान्परित्यजेत् । सर्वपापविशुद्धात्मा व्रजते यत्र शंकरः
जलप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप । हंसयुक्तेन यानेन रुद्रलोकं स गच्छति
यावच्चंद्रश्च सूर्यश्च हिमवांश्च महोदधिः । गंगाद्याः सरितो यावत्तावत्स्वर्गे महीयते
अनाशनं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । गर्भवासे तु राजेंद्र न पुनर्जायते नरः
ततो गच्छेत राजेंद्र अटवीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्निंद्रस्यार्द्धासनंलभेत्
शृंगतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् । तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः
एरंडीनर्मदायाश्च संगमं लोकविश्रुतम् । तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम्
उपवासपरो भूत्वा नित्यं ब्रह्मपरायणः । तत्र स्नात्वा तु राजेंद्र मुच्यते ब्रह्महत्यया
ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् । जमदग्निरिति ख्यातं सिद्धो यत्र जनार्दनः
यत्रेष्ट्वा बहुभिर्यज्ञैरिंद्रो देवाधिपोभवत् । तत्र स्नात्वा नरो राजन्नर्मदोदधिसंगमे
त्रिगुणस्याश्वमेधस्य फलं प्राप्नोति मानवः । पश्चिमोदधिसायुज्यं मुक्तिद्वारविघाटनम्
तत्र देवाः सगंधर्वा ऋषयः सिद्धचारणाः । आराधयंति देवेशं त्रिसंध्यं विमलेश्वरम्
सर्वपापविशुद्धात्मा रुद्रलोके महीयते । विमलेश्वरपरं तीर्थं न भूतं न भविष्यति
तत्रोपवासं कृत्वा ये पश्यंति विमलेश्वरम् । सर्वपापविशुद्धात्मा रुद्रलोकं व्रजंति ते
ततो गच्छेत राजेंद्र केशिनीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्नुपवासपरायणः
उपोष्य रजनीमेकां नियतो नियताशनः । तत्र तीर्थप्रभावेण मुच्यते ब्रह्महत्यया
सर्वतीर्थाभिषेकं च यः पश्येत्सागरेश्वरम् । योजनाभ्यंतरे तिष्ठेदावर्ते संस्थितः शिवः