न जानंति नरा मूढा विष्णुमायाविमोहिताः । नर्मदायां स्थितं दिव्यं वृषतीर्थं नराधिप
भृगुतीर्थस्य माहात्म्यं यः शृणोति नरः सकृत् । विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति
ततो गच्छेत राजेंद्र गौतमेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्नुपवासपरायणः
कांचनेन विमानेन ब्रह्मलोके महीयते । धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु
नर्मदायां स्थितं राजन्सर्वपातकनाशनम् । तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति
तस्मिन्तीर्थे महाराज प्राणत्यागं करोति यः । चतुर्भुजस्त्रिनेत्रस्तु रुद्रतुल्यबलो भवेत्
वसेत्कल्पायुतं साग्रं रुद्रतुल्यपराक्रमः । कालेन महता प्राप्तः पृथिव्यामेकराड्भवेत्
ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् । प्रयागे यत्फलं दृष्टं मार्कंडेयेन भाषितम्
तत्फलं लभते राजन्स्नातमात्रस्तु मानवः । मासि भाद्रपदे चैव शुक्लपक्षस्य चाष्टमीम्
उपोष्य रजनीमेकां तत्र स्नानं समाचरेत् । यमदूतैर्न बाध्येत इंद्रलोकं स गच्छति
ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः । हिरण्यद्वीपविख्यातं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरो राजन्धनवान्रूपवान्भवेत् । ततो गच्छेत राजेंद्र तीर्थं कनखलं महत्
गरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप । विख्यातं सर्वलोकेषु योगिनी तत्र तिष्ठति
क्रीडते योगिभिः सार्धं शिवेन सह नृत्यति । तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते
ततो गच्छेत राजेंद्र ईशतीर्थमनुत्तमम् । ईशस्तत्र विनिर्मुक्तो गत ऊर्ध्वं न संशयः
ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः । वाराहं रूपमास्थाय अचिंत्यः परमेश्वरः
वराहतीर्थे नरः स्नात्वा द्वादश्यां तु विशेषतः । विष्णुलोकमवाप्नोति नरकं तु न गच्छति
ततो गच्छेत राजेंद्र सोमतीर्थमनुत्तमम् । पौर्णिमास्यां विशेषेण तत्र स्नानं समाचरेत्
प्रणिपत्य च ईशानं बलिस्तस्य प्रसीदति । हरिश्चन्द्रपुरं दिव्यमंतरिक्षे तु दृश्यते
चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने । नर्मदातोयवेगेन रुरुकच्छोपसेवितम्
तस्मिन्स्थाने निवासं च विष्णुः शंकरमब्रवीत् । द्वीपेश्वरे नरः स्नात्वा लभेद्बहुसुवर्णकम्
ततो गच्छेत राजेंद्र रुद्रकन्यां तु संगमे । स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात्
देवतीर्थं ततो गच्छेत्सर्वदेवनमस्कृतम् । तत्र स्नात्वा तु राजेंद्र दैवतैः सह मोदते
ततो गच्छेत राजेंद्र शिखितीर्थमनुत्तमम् । तत्र वै दीयते दानं सर्वं कोटिगुणं भवेत्
अपरपक्षे अमावास्यां स्नानं तत्र समाचरेत् । ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता
भृगुतीर्थे तु राजेंद्र तीर्थकोटिर्व्यवस्थिता । अकामो वा सकामो वा तत्र स्नायीत मानवः
अश्वमेधमवाप्नोति दैवतैः सह मोदते । तत्र सिद्धमवाप्नोति भृगुस्तु मुनिपुंगवः । अवतारः कृतस्तेन शंकरेण महात्मना
नारद उवाच- ततो गच्छेत राजेंद्र विहगेश्वरमुत्तमम् । दर्शनात्तस्यराजेंद्र मुच्यते सर्वपातकैः
ततो गच्छेत राजेन्द्र नर्मदेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते
अश्वतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् । सुभगो दर्शनीयश्च भोगवान्जायते नरः