त्वद्गुणनिकरान्वक्तुं कः शक्तो भवति मानुषो नाथ । वासुकिरयं हि कदाचिद्वदनसहस्रं भवेद्यस्य
भक्त्या तवापि शंकरभुवनपते त्वत्स्तुतौ तु मुखरस्य । वंद्य क्षमस्व भवन्प्रसीद मे तव चरणपतितस्य
सत्वं रजस्तमस्त्वं स्थित्युत्पत्तौ विनाशने देव । त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किंचित्
यमनियमयज्ञदानैर्वेदाभ्यासावधारणोद्योगात् । त्वद्भक्तेः सर्वमिदं नार्हति कलासहस्रांशेन
उत्कृष्टरसरसायनखड्गांजनपादुकादि सिद्धिर्वा । चिह्नानि भवत्प्रणतानां दृश्यंत इह जन्मनि प्रकटम्
शाठ्येन नमति यद्यपि ददासि त्वं धर्ममिच्छतां देव । भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मिता नाथ
परदारपरस्वरतं परिभवपरिदुःखशोकसंतप्तम् । परवदनवीक्षणपरं परमेश्वर मां परित्राहि
अलीकाभिमानदग्धं क्षणभंगुरविभवविलसितं देव । क्रूरं कुपथाभिमुखं पतितं मां त्राहि देवेश
दीनेंद्रियगणसार्थैर्बंधुजनैरेव पूरिता आशा । तुच्छा तथापि शंकर किं मूढं मां विडंबयसि
तृष्णां हरस्व शीघ्रं लक्ष्मीं मां देहि हृदयवासिनीं नित्याम् । छिंधि मदमोहपाशानुत्तारय मां महादेव
करुणाभ्युदयं नाम स्तोत्रमिदं सिद्धिदं दिव्यम् । यः पठति भक्तियुक्तस्तस्य तु तुष्येद्भृगोर्यथाहि शिवः
ईश्वर उवाच-। अहं तुष्टोस्मि ते विप्र वरं प्रार्थय स्वेप्सितम् । उमया सहितो देवो वरं तस्य हि दापयेत्
भृगुरुवाच-। यदि तुष्टोसि देवेश यदि देयो वरो मम । रुद्रवेदी भवेदेवमेतत्संपादयस्व मे
ईश्वर उवाच-। एवं भवतु विप्रेंद्र क्रोधस्थानं भविष्यति । न पिता पुत्रयोश्चैव एकवाक्यं भविष्यति
तदाप्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः । उपासंतो भृगोस्तीर्थं तुष्टो यत्र महेश्वरः
दर्शनात्तस्य तीर्थस्य सद्यः पापात्प्रमुच्यते । अवशाः स्ववशाश्चापि म्रियंते तत्र जंतवः
गुह्यातिगुह्यस्य गतिस्तेषां निःसंशया भवेत् । एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम्
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः । औपानहं तदा छत्रं देयमन्नं च कांचनम्
भोजनं च यथाशक्त्या अक्षयं तस्य तद्भवेत् । सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया
तीर्थस्नानं तु यद्दानमक्षयं तस्य तद्भवेत् । चंद्रसूर्योपरागेषु वृषोत्सर्गमनुत्तमम्
न जानंति नरा मूढा विष्णुमायाविमोहिताः । नर्मदायां स्थितं दिव्यं वृषतीर्थं नराधिप
भृगुतीर्थस्य माहात्म्यं यः शृणोति नरः सकृत् । विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति
ततो गच्छेत राजेंद्र गौतमेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्नुपवासपरायणः
कांचनेन विमानेन ब्रह्मलोके महीयते । धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु
नर्मदायां स्थितं राजन्सर्वपातकनाशनम् । तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति
तस्मिन्तीर्थे महाराज प्राणत्यागं करोति यः । चतुर्भुजस्त्रिनेत्रस्तु रुद्रतुल्यबलो भवेत्
वसेत्कल्पायुतं साग्रं रुद्रतुल्यपराक्रमः । कालेन महता प्राप्तः पृथिव्यामेकराड्भवेत्
ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् । प्रयागे यत्फलं दृष्टं मार्कंडेयेन भाषितम्
तत्फलं लभते राजन्स्नातमात्रस्तु मानवः । मासि भाद्रपदे चैव शुक्लपक्षस्य चाष्टमीम्
उपोष्य रजनीमेकां तत्र स्नानं समाचरेत् । यमदूतैर्न बाध्येत इंद्रलोकं स गच्छति