ईश्वर उवाच-। भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः । ध्यायते मां समाधिस्थो वरं प्रार्थयते प्रिये
तत्र प्रहसिता देवी ईश्वरं प्रत्यभाषत । धूमावर्तशिखा जाता ततोऽद्यापि न तुष्यसि । दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा
देव उवाच-। न ज्ञायसे महादेवि अयं क्रोधेन चेष्टितः । दर्शयामि यथातथ्यं प्रियं ते च करोम्यहम्
स्मारितो देवदेवेन धर्मरूपो वृषस्तदा । स्मरणादेव देवस्य वृषः शीघ्रमुपस्थितः
प्राहासौ मानुषीं वाचमादेशो दीयतां प्रभो । वल्मीकैश्छादितो विप्र एनं भूमौ निपातय
योगस्थस्तु ततो ध्यायंस्ततस्तेन निपातितः । तत्क्षणात्क्रोधसंतप्तो हस्तमुत्क्षिप्तवान्वृषम्
एवं संभाषमाणस्तु कुत्र गच्छसि भो वृष । अद्य त्वामथ पाप्मानं प्रत्यक्षं हन्म्यहं वृष
धर्षितस्तु तदा विप्रो ह्यंतरिक्षं गतं वृषम् । आकाशे प्रेक्षते भूय एतदद्भुतमुत्तमम्
ततः प्रहसिते रुद्रे ऋषिरग्रे व्यवस्थितः । तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात्पतितो भुवि
प्रणम्य दंडवद्भूमौ स्तुवते परमेश्वरम् । प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपम् । भवभीतो भुवनपते भूतं विज्ञापये किंचित्
त्वद्गुणनिकरान्वक्तुं कः शक्तो भवति मानुषो नाथ । वासुकिरयं हि कदाचिद्वदनसहस्रं भवेद्यस्य
भक्त्या तवापि शंकरभुवनपते त्वत्स्तुतौ तु मुखरस्य । वंद्य क्षमस्व भवन्प्रसीद मे तव चरणपतितस्य
सत्वं रजस्तमस्त्वं स्थित्युत्पत्तौ विनाशने देव । त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किंचित्
यमनियमयज्ञदानैर्वेदाभ्यासावधारणोद्योगात् । त्वद्भक्तेः सर्वमिदं नार्हति कलासहस्रांशेन
उत्कृष्टरसरसायनखड्गांजनपादुकादि सिद्धिर्वा । चिह्नानि भवत्प्रणतानां दृश्यंत इह जन्मनि प्रकटम्
शाठ्येन नमति यद्यपि ददासि त्वं धर्ममिच्छतां देव । भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मिता नाथ
परदारपरस्वरतं परिभवपरिदुःखशोकसंतप्तम् । परवदनवीक्षणपरं परमेश्वर मां परित्राहि
अलीकाभिमानदग्धं क्षणभंगुरविभवविलसितं देव । क्रूरं कुपथाभिमुखं पतितं मां त्राहि देवेश
दीनेंद्रियगणसार्थैर्बंधुजनैरेव पूरिता आशा । तुच्छा तथापि शंकर किं मूढं मां विडंबयसि
तृष्णां हरस्व शीघ्रं लक्ष्मीं मां देहि हृदयवासिनीं नित्याम् । छिंधि मदमोहपाशानुत्तारय मां महादेव
करुणाभ्युदयं नाम स्तोत्रमिदं सिद्धिदं दिव्यम् । यः पठति भक्तियुक्तस्तस्य तु तुष्येद्भृगोर्यथाहि शिवः
ईश्वर उवाच-। अहं तुष्टोस्मि ते विप्र वरं प्रार्थय स्वेप्सितम् । उमया सहितो देवो वरं तस्य हि दापयेत्
भृगुरुवाच-। यदि तुष्टोसि देवेश यदि देयो वरो मम । रुद्रवेदी भवेदेवमेतत्संपादयस्व मे
ईश्वर उवाच-। एवं भवतु विप्रेंद्र क्रोधस्थानं भविष्यति । न पिता पुत्रयोश्चैव एकवाक्यं भविष्यति
तदाप्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः । उपासंतो भृगोस्तीर्थं तुष्टो यत्र महेश्वरः
दर्शनात्तस्य तीर्थस्य सद्यः पापात्प्रमुच्यते । अवशाः स्ववशाश्चापि म्रियंते तत्र जंतवः
गुह्यातिगुह्यस्य गतिस्तेषां निःसंशया भवेत् । एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम्
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः । औपानहं तदा छत्रं देयमन्नं च कांचनम्
भोजनं च यथाशक्त्या अक्षयं तस्य तद्भवेत् । सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया
तीर्थस्नानं तु यद्दानमक्षयं तस्य तद्भवेत् । चंद्रसूर्योपरागेषु वृषोत्सर्गमनुत्तमम्