एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु । मोदते देवलोकस्था यावदिंद्राश्चतुर्दश
अयने वा चतुर्दश्यां संक्रांतौ विषुवे तथा । स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः
दानं दद्याद्यथाशक्त्या प्रीयेतां हरिशंकरौ । शुक्लतीर्थप्रभावेण सर्वं भवति चाक्षयम्
अनाथं दुर्गतं विप्रं नाथवंतमथापि वा । उद्वाहयति यस्तीर्थे तस्य पुण्यफलं शृणु
यावत्तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि शिवलोके महीयते
नारद उवाच- ततस्तु नरकं गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र नरकं तत्र पश्यति
अस्यतीर्थस्य माहात्म्यं शृणु त्वं पांडुनंदन । तस्मिंस्तीर्थे तु राजेंद्र यान्यस्थीनि विनिक्षिपेत्
विलयं यांति सर्वाणि रूपवान्जायते नरः । गोतीर्थं तु ततो गच्छेद्दृष्ट्वा पापात्प्रमुच्यते
ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः । तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति
घृतेन दीपं प्रज्वाल्य घृतेन स्नापयेच्छिवम् । सघृतं श्रीफलं दत्वा कृत्वा चांते प्रदक्षिणम्
घंटाभरणसंयुक्तां कपिलां यः प्रयच्छति । शिवतुल्यो नरो भूत्वा न चेह जायते पुनः
अंगारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः । स्नापयित्वा शिवं भक्त्या ब्राह्मणेभ्यस्तु भोजनम्
अंगारकनवम्यां तु अमावस्यां तथैव च । स्नापयेत्तत्र यत्नेन रूपवान्सुभगो भवेत्
घृतेन स्नापयेल्लिंगं पूजयेद्भक्तितो द्विजान् । पुष्पकेण विमानेन सहस्रैः परिवारितः
शैवं पदमवाप्नोति नात्र चाभिगतं भवेत् । अक्षयं मोदते कालं यथा रुद्रस्तथैव च
यदा तु कर्मसंयोगान्मर्त्यलोकमुपागतः । राजा भवति धर्मिष्ठो रूपवान्जायते बली
ततो गच्छेत राजेंद्र ऋषितीर्थमनुत्तमम् । तृणबिंदुऋषिर्नाम शापदग्धो व्यवस्थितः
तस्यतीर्थप्रभावेण पापमुक्तोऽभवद्द्विजः । ततो गच्छेत राजेंद्र गणेश्वरमनुत्तमम्
श्रावणेमासि संप्राप्ते कृष्णपक्षे चतुर्दशीम् । स्नातमात्रो नरस्तत्र रुद्रलोके महीयते
पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् । गणेश्वरसमीपे तु गंगावदनमुत्तमम्
अकामो वा सकामो वा तत्र स्नात्वा तु मानवः । आजन्मजनितैः पापैर्मुच्यते नात्र संशयः
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात्
प्रयागे यत्फलं दृष्टं शंकरेण महात्मना । तदेव निखिलं पुण्यं गंगाराह्वर्कसंगमे
तस्यैवं पश्चिमे स्थाने समीपेनातिदूरतः । दशाश्वमेधिकं नाम त्रिषु लोकेषु विश्रुतम्
उपोष्य रजनीमेकां मासि भाद्रपदे तथा । अमावस्यां नरः स्नात्वा व्रजेद्वै यत्र शंकरः
सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कृत्वा अश्वमेधफलं लभेत्
दशाश्वमेधात्पश्चिमतो भृगुर्ब्राह्मणसत्तमः । दिव्यं वर्षसहस्रं तु ईश्वरं पर्युपासत
वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम् । आश्चर्यं च महज्जातमुमायाः शंकरस्य च
गौरी तु पृच्छते देवं कोयमत्र तु संस्थितः । देवो वा दानवो वाथ कथयस्व महेश्वर