कुरुक्षेत्रं तु पुण्यं च राहुग्रस्ते दिवाकरे । दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम्
दर्शनात्स्पर्शनाच्चैव स्नानाद्ध्यानात्तपोर्जनात् । होमाच्चैवोपवासाच्च शुक्लतीर्थफलं महत्
शुक्लतीर्थं महापुण्यं नद्यां तु संव्यवस्थितम् । चाणिक्योनाम राजर्षिः सिद्धिं तत्र समागतः
एतत्क्षेत्रं समुत्पन्नं योजनावृत्तिसंस्थितम् । शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम्
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति । अहमत्र ऋषिश्रेष्ठ तिष्ठामि ह्युमया सह
वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी । कैलासाच्चापि निर्गत्य तत्र संनिहितो ह्यहम्
देवकिन्नरगंधर्वाः सिद्धविद्याधरास्तथा । गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः
गगनस्थास्तु तिष्ठंति विमानैः सर्वकामकैः । शुक्लतीर्थे तु राजेंद्र आगता धर्मकांक्षिणः
रजकेन यथा वस्त्रं शुक्लं भवति वारिणा । आजन्मसंचितं पापं शुक्लतीर्थे व्यपोहति
स्नानं दानं महापुण्यं मार्कंड ऋषिसत्तम । शुक्लतीर्थात्परं तीर्थं न भूतं न भविष्यति
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः । अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति
तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः । देवदानेन या पुष्टिर्न सा क्रतुशतैरपि
कार्तिकस्य च मासस्य कृष्णपक्षे चतुर्दशी । घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम्
एकविंशत्कुलोपेतो न च्यवेच्चैश्वरात्पदात् । शुक्लतीर्थं परं तीर्थमृषिसिद्धनिषेवितम्
तत्र स्नात्वा ततो राजन्पुनर्जन्म न विद्यते । स्नात्वा वै शुक्लतीर्थेपि अर्चयेद्वृषभध्वजम्
जागरं कारयेत्तत्र नृत्यगीतादिमंगलैः । प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम्
आचार्यं भोजयेत्पश्चाच्छिवव्रतपरः शुचिः । भोजनं च यथाशक्त्या वित्तशाठ्यं न कारयेत्
प्रदक्षिणं ततः कृत्वा शनैर्देवांतिकं व्रजेत् । एवं वै कुरुते यस्तु तस्य पुण्यफलं शृणु
दिव्ययानसमारूढस्तूयमानोऽप्सरोगणैः । शिवतुल्यबलोपेतस्तिष्ठत्याभूतसंप्लवम्
शुक्लतीर्थे तु या नारी ददाति कनकं शुभम् । घृतेन स्नापयेद्देवं कुमारं चाभिपूजयेत्
एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु । मोदते देवलोकस्था यावदिंद्राश्चतुर्दश
अयने वा चतुर्दश्यां संक्रांतौ विषुवे तथा । स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः
दानं दद्याद्यथाशक्त्या प्रीयेतां हरिशंकरौ । शुक्लतीर्थप्रभावेण सर्वं भवति चाक्षयम्
अनाथं दुर्गतं विप्रं नाथवंतमथापि वा । उद्वाहयति यस्तीर्थे तस्य पुण्यफलं शृणु
यावत्तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि शिवलोके महीयते
नारद उवाच- ततस्तु नरकं गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र नरकं तत्र पश्यति
अस्यतीर्थस्य माहात्म्यं शृणु त्वं पांडुनंदन । तस्मिंस्तीर्थे तु राजेंद्र यान्यस्थीनि विनिक्षिपेत्
विलयं यांति सर्वाणि रूपवान्जायते नरः । गोतीर्थं तु ततो गच्छेद्दृष्ट्वा पापात्प्रमुच्यते
ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः । तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति