तपस्तप्त्वा तु राजेंद्र तत्रैव च पुरागतैः । अंधोनस्य समीपे तु नातिदूरे तु तस्य वै
स्नानं दानं च तत्रैव भोजनं पिंडपातनम् । अग्निवेशे जले वापि अथवापि अनाशने
अनिवर्तिका गतिस्तस्य मृतस्याप्यर्द्धयोजने । त्रैयंबकेण तोयेन स्नापयेन्नरपुंगवः
अंधोनमूले दत्वा तु पिंडं चैव यथाविधि । पितरस्तस्य तृप्यंति यावच्चंद्र दिवाकरौ
उत्तरायणे तु संप्राप्ते तत्र स्नानं करोति यः । पुरुषो वापि स्त्री वापि वसेदायतने शुचिः
सिद्धेश्वरस्य देवस्य प्रभाते पूजनान्नरः । स तां गतिमवाप्नोति न तां सर्वैर्महामखैः
यदा च तीर्थकालेन रूपवान्सुभगो भवेत् । मर्त्ये भवति राजासावासमुद्रांतगोचरे
क्षेत्रपालं न पश्येच्च दंडपालं महाबलम् । वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुंडलम्
एतत्तीर्थफलं ज्ञात्वा सर्वेदेवाः समागताः । मुंचंति पुष्पवृष्टिं तु स्तुवंति कुसुमेश्वरम्
नारद उवाच- भार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना । हुंकारितास्तु देवेन दानवाः प्रलयं गताः
तत्र स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते । शुक्लतीर्थस्य चोत्पत्तिं शृणु त्वं पांडुनंदन
हिमवच्छिखरे रम्ये नानाधातुविचित्रिते । तरुणादित्यसंकाशे तप्तकांचनसंनिभे
वज्रस्फटिकसोपाने चित्रपट्टशिलातले । जांबूनदमये दिव्ये नाना पद्मोपशोभिते
तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम् । लोकानुग्राहकं शांतं गणवृंदैः समावृतम्
स्कंदनंदिमहाकालैर्वीरभद्र गणादिभिः । उमया सहितं देवं मार्कंडः परिपृच्छति
देवदेव महादेव इन्द्र कामादि संस्तुत । संसारभवभीतोहं सुखोपायं ब्रवीहि मे
भगवन्भूतभव्येश सर्वपापप्रणाशनम् । तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर
ईश्वर उवाच- शृणुविप्र महाभाग सर्वशास्त्रविशारद । स्नानादि कुरु गच्छ त्वं ऋषिसंघैस्समावृतः
मन्वत्रि याज्ञवल्क्याश्च काश्यपश्चैव अंगिराः । यमापस्तंब संवर्ताः कात्यायनबृहस्पती
नारदो गौतमश्चैव पृच्छंति धर्मकांक्षिणः । गंगाकनखले पुण्या प्रयागं पुष्करं गया
कुरुक्षेत्रं तु पुण्यं च राहुग्रस्ते दिवाकरे । दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम्
दर्शनात्स्पर्शनाच्चैव स्नानाद्ध्यानात्तपोर्जनात् । होमाच्चैवोपवासाच्च शुक्लतीर्थफलं महत्
शुक्लतीर्थं महापुण्यं नद्यां तु संव्यवस्थितम् । चाणिक्योनाम राजर्षिः सिद्धिं तत्र समागतः
एतत्क्षेत्रं समुत्पन्नं योजनावृत्तिसंस्थितम् । शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम्
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति । अहमत्र ऋषिश्रेष्ठ तिष्ठामि ह्युमया सह
वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी । कैलासाच्चापि निर्गत्य तत्र संनिहितो ह्यहम्
देवकिन्नरगंधर्वाः सिद्धविद्याधरास्तथा । गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः
गगनस्थास्तु तिष्ठंति विमानैः सर्वकामकैः । शुक्लतीर्थे तु राजेंद्र आगता धर्मकांक्षिणः
रजकेन यथा वस्त्रं शुक्लं भवति वारिणा । आजन्मसंचितं पापं शुक्लतीर्थे व्यपोहति
स्नानं दानं महापुण्यं मार्कंड ऋषिसत्तम । शुक्लतीर्थात्परं तीर्थं न भूतं न भविष्यति