स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते । सोमग्रहे तु राजेंद्र पापक्षयकरं भवेत्
त्रैलोक्यविश्रुतं राजन्सोमतीर्थं महाफलम् । यस्तु चांद्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति । अग्निप्रवेशे तु जलेप्यथवापि ह्यनाशने
सोमतीर्थे मृतो यस्तु नासौ मर्त्येभिजायते । स्तंभतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र सोमलोके महीयते । ततो गच्छेत राजेंद्र विष्णुतीर्थमनुत्तमम्
योधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम् । असुरा योधितास्तत्र वासुदेवेन कोटिशः
तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह । अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति
ततो गच्छेत्तु राजेंद्र तापसेश्वरमुत्तमम् । अमोहकमिति ख्यातं पितॄन्यस्तत्र तर्पयेत्
पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि । तत्र स्नात्वा नरो राजन्पितृपिंडं तु दापयेत्
गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः । तस्मिंस्तु दापयेत्पिंडं वैशाखे तु विशेषतः
तृप्यंति पितरस्तावद्यावत्तिष्ठति मेदिनी । ततो गच्छेत राजेंद्र सिद्धेश्वरमनुत्तमम्
तत्र गत्वा तु राजेंद्र गणपत्यंतिकं व्रजेत् । ततो गच्छेत राजेंद्र लिंगो यत्र जनार्दनः
तत्र स्नात्वा तु राजेंद्र विष्णुलोके महीयते । नर्मदादक्षिणेकूले तीर्थं परमशोभनम्
कामदेवः स्वयं तत्र तपस्तप्यत्यसौ महान् । दिव्यं वर्षसहस्रं तु शंकरं पर्युपासते
समाधिपर्वदग्धस्तु शंकरेण महात्मना । श्वेतपर्वोपमश्चैव हुताशः शुक्लपर्वणि
एते दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः । दिव्यवर्षसहस्रेण तुष्टस्तेषां महेश्वरः
उमया सहितो रुद्रस्तेषां तुष्टो वरप्रदः । विमोक्षयित्वा तान्सर्वान्नर्म्मदातटमास्थितान्
तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः । त्वत्प्रसादान्महादेव तीर्थं च भवतूत्तमम्
अर्धयोजनविस्तीर्णं तीर्थं दिक्षु समंततः । तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः
कुसुमायुधरूपेण रुद्रलोके महीयते । वैश्वानरे यमेनैव कामदेवेन वायवे
तपस्तप्त्वा तु राजेंद्र तत्रैव च पुरागतैः । अंधोनस्य समीपे तु नातिदूरे तु तस्य वै
स्नानं दानं च तत्रैव भोजनं पिंडपातनम् । अग्निवेशे जले वापि अथवापि अनाशने
अनिवर्तिका गतिस्तस्य मृतस्याप्यर्द्धयोजने । त्रैयंबकेण तोयेन स्नापयेन्नरपुंगवः
अंधोनमूले दत्वा तु पिंडं चैव यथाविधि । पितरस्तस्य तृप्यंति यावच्चंद्र दिवाकरौ
उत्तरायणे तु संप्राप्ते तत्र स्नानं करोति यः । पुरुषो वापि स्त्री वापि वसेदायतने शुचिः
सिद्धेश्वरस्य देवस्य प्रभाते पूजनान्नरः । स तां गतिमवाप्नोति न तां सर्वैर्महामखैः
यदा च तीर्थकालेन रूपवान्सुभगो भवेत् । मर्त्ये भवति राजासावासमुद्रांतगोचरे
क्षेत्रपालं न पश्येच्च दंडपालं महाबलम् । वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुंडलम्
एतत्तीर्थफलं ज्ञात्वा सर्वेदेवाः समागताः । मुंचंति पुष्पवृष्टिं तु स्तुवंति कुसुमेश्वरम्
नारद उवाच- भार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना । हुंकारितास्तु देवेन दानवाः प्रलयं गताः