कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः । कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः
यत्र स्नात्वा तु राजेंद्र सर्वसंपदमाप्नुयात् । ततः पश्चिमतो गच्छेन्मरुतालयमुत्तमम्
तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः । कांचनं तु ततो दद्यादन्नशक्त्या तु बुद्धिमान्
पुष्पकेण विमानेन वायुलोकं स गच्छति । मम तीर्थं ततो गच्छेन्माघमासे युधिष्ठिर
कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत् । नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसंकटम्
अहल्यातीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र अप्सरोभिः प्रमोदते
पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत् । चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी
कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेत् । यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेत्
स्त्रीवल्लभो भवेच्छ्रीमान्कामदेव इवापरः । अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम्
स्नातमात्रो नरस्तत्र गोसहस्र फलं लभेत् । सोमतीर्थं ततो गच्छेत्स्नानमात्रं समाचरेत्
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते । सोमग्रहे तु राजेंद्र पापक्षयकरं भवेत्
त्रैलोक्यविश्रुतं राजन्सोमतीर्थं महाफलम् । यस्तु चांद्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति । अग्निप्रवेशे तु जलेप्यथवापि ह्यनाशने
सोमतीर्थे मृतो यस्तु नासौ मर्त्येभिजायते । स्तंभतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र सोमलोके महीयते । ततो गच्छेत राजेंद्र विष्णुतीर्थमनुत्तमम्
योधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम् । असुरा योधितास्तत्र वासुदेवेन कोटिशः
तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह । अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति
ततो गच्छेत्तु राजेंद्र तापसेश्वरमुत्तमम् । अमोहकमिति ख्यातं पितॄन्यस्तत्र तर्पयेत्
पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि । तत्र स्नात्वा नरो राजन्पितृपिंडं तु दापयेत्
गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः । तस्मिंस्तु दापयेत्पिंडं वैशाखे तु विशेषतः
तृप्यंति पितरस्तावद्यावत्तिष्ठति मेदिनी । ततो गच्छेत राजेंद्र सिद्धेश्वरमनुत्तमम्
तत्र गत्वा तु राजेंद्र गणपत्यंतिकं व्रजेत् । ततो गच्छेत राजेंद्र लिंगो यत्र जनार्दनः
तत्र स्नात्वा तु राजेंद्र विष्णुलोके महीयते । नर्मदादक्षिणेकूले तीर्थं परमशोभनम्
कामदेवः स्वयं तत्र तपस्तप्यत्यसौ महान् । दिव्यं वर्षसहस्रं तु शंकरं पर्युपासते
समाधिपर्वदग्धस्तु शंकरेण महात्मना । श्वेतपर्वोपमश्चैव हुताशः शुक्लपर्वणि
एते दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः । दिव्यवर्षसहस्रेण तुष्टस्तेषां महेश्वरः
उमया सहितो रुद्रस्तेषां तुष्टो वरप्रदः । विमोक्षयित्वा तान्सर्वान्नर्म्मदातटमास्थितान्
तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः । त्वत्प्रसादान्महादेव तीर्थं च भवतूत्तमम्
अर्धयोजनविस्तीर्णं तीर्थं दिक्षु समंततः । तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः
कुसुमायुधरूपेण रुद्रलोके महीयते । वैश्वानरे यमेनैव कामदेवेन वायवे