सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः । वटेश्वरं ततो गच्छेत्सर्वतीर्थमनुत्तमम्
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् । संगमेश्वरं ततो गच्छेत्सर्वपापहरं परम्
तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः । भद्रतीर्थं समासाद्य दानं दद्यात्तु यो नरः
तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् । अथ नारी भवेत्कापि तत्र स्नानं समाचरेत्
गौरीतुल्या भवेत्सा तु इंद्रं याति न संशयः । अंगारेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते । अंगारक्यां चतुर्थ्यां तु स्नानं तत्र समाचरेत्
अक्षयं मोदते कालं मुरारिकृतशासनः । अयोनिसंगमे स्नात्वा न पश्येद्योनिमंदिरम्
पांडवेश्वरकं गत्वा स्नानं तत्र समाचरेत् । अक्षयं मोदते कालमवध्यस्तु सुरासुरैः
विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः । तत्र भुक्त्वा महाभोगान्मर्त्ये राजाभिजायते
कंबोतिकेश्वरं गच्छेत्स्नानं तत्र समाचरेत् । उत्तरायणे तु संप्राप्ते यदिच्छेत्तस्य तद्भवेत्
चंद्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते
ततो गच्छेत राजेंद्र तीर्थं शक्रस्य विश्रुतम् । पूजितं देवराजेन देवैरपि नमस्कृतम्
तत्र स्नात्वा नरो राजन्दानं दत्वा च कांचनम् । अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत्
वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि नरो हरपुरे वसेत्
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् । अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप
स्वामी भवति मर्त्येषु तस्य तीर्थ प्रभावतः । ततो गच्छेत राजेंद्र ब्रह्मावर्त्तमनुत्तमम्
तत्र स्नात्वा नरो राजंस्तर्पयेत्पितृदेवताः । उपोष्य रजनीमेकां पिंडं दत्वा यथाविधि
कन्यागते यथाऽदित्ये अक्षयं संचितं भवेत् । ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्कपिलां यः प्रयच्छति । संपूर्णां पृथिवीं दत्वा यत्फलं तदवाप्नुयात्
नर्मदेश्वरं परं तीर्थं न भूतं न भविष्यति । तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत्
तत्र सर्वगतो राजा पृथिव्यामभिजायते । सर्वलक्षणसंपूर्णः सर्वव्याधिविवर्जितः
नार्मदीयोत्तरेकूले तीर्थं परमशोभनम् । आदित्यायतनं रम्यमीश्वरेण तु भावितम्
तत्र स्नात्वा तु राजेंद्र दानं दत्वा च शक्तितः । तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम्
दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मणः । मुच्यंते सर्वपापेभ्यः सूर्यलोकं प्रयांति च
माघमासे तु संप्राप्ते शुक्लपक्षस्य सप्तमीम् । वसेदायतने यस्तु निरात्मा यो जितेंद्रियः
न जायते व्याधितश्च कालेंधो बधिरस्तथा । सुभगो रूपसंपन्नः स्त्रीणां भवति वल्लभः
इदं तीर्थं महापुण्यं मार्कंडेयेन भाषितम् । ये प्रयांति न राजेंद्र वंचितास्ते न संशयः
मासेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात्
मोदते सर्वलोकस्थो यावदिंद्राश्चतुर्दश । ततः समीपतः स्थित्वा नागेश्वरं तपोवनम्
तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः । बहुभिर्नागकन्याभिः क्रीडते कालमक्षयम्