देवतीर्थं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा । तत्र स्नात्वा नरो राजन्ब्रह्मलोके महीयते
अमरकंटकं ततो गच्छेदमरस्थापितं पुरा । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत्
ततो गच्छेत राजेंद्र वामनेश्वरमुत्तमम् । तत्र वामनकं दृष्ट्वा मुच्यते ब्रह्महत्यया
ऋषितीर्थं ततो गच्छेदीशानेशं पुमान्ध्रुवम् । वटेश्वरं ततो दृष्ट्वा पर्य्याप्तं जन्मनः फलम्
भीमेश्वरं ततो गच्छेत्सर्वव्याधिविनाशनम् । स्नातमात्रो नरो राजन्सर्वदुःखात्प्रमुच्यते
ततो गच्छेत राजेंद्र वारणेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्सर्वदुःखात्प्रमुच्यते
सोमतीर्थं ततो गच्छेत्पश्येच्चंद्रमनुत्तमम् । तत्र स्नात्वा नरो राजन्भक्त्या परमया युतः
तत्क्षणाद्दिव्यदेहस्थः शिववन्मोदते चिरम् । षष्टिवर्षसहस्राणि शिवलोके महीयते
ततो गच्छेत राजेंद्र पिंगलेश्वरमुत्तमम् । अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात्
तस्मिंस्तीर्थे तु राजेंद्र कपिलां यः प्रयच्छति । यावंति तस्या रोमाणि तत्प्रसूतकुलस्य च
तावद्वर्षसहस्राणि रुद्रलोके महीयते । यस्तुप्राणपरित्यागं तत्र कुर्य्यान्नराधिप
अक्षयं मोदते कालं यावच्चंद्रदिवाकरौ । नर्मदातटमाश्रित्य तिष्ठंति ये तु मानवाः
ते मृताः स्वर्गमायांति तथा सुकृतिनो यथा । सुरभिकेश्वरं गच्छेन्नारकं कोटिकेश्वरम्
गंगावतरणे तत्र दिने पुण्यो न संशयः । नंदितीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्
तुष्यते तं तु नंदीशः सोमलोके महीयते । ततो द्वीपेश्वरं गच्छेद्व्यासतीर्थं तपोवनम्
निवर्तिता पुरा तत्र व्यासभीता महानदी । हुंकारिता तु व्यासेन दक्षिणेन ततो गता
प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । व्यासस्तस्य भवेत्प्रीतो वांछितं लभते फलम्
सूत्रेण वेष्टयेद्यस्तु दीप्तं देवं सवेदिकम् । क्रीडते ह्यक्षयं कालं यथा रुद्रस्तथैव सः
ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् । संगमे तु नरः स्नात्वा मुच्यते सर्वपातकैः
एरंडी त्रिषु लोकेषु विख्याता पापनाशिनी । अथवाश्वयुजे मासे शुक्लपक्षस्य चाष्टमी
शुचिर्भूत्वा नरः स्नात्वा सोपवासपरायणः
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता । एरंडीसंगमे स्नात्वा भक्तिभावानुरंजितः
शुक्तिकां शिरसि स्थाप्य अवगाह्य च वै जलम् । नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बषैः
प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा
ततः सुवर्णतिलके स्नात्वा दत्वा च कांचनम् । कांचनेन विमानेन रुद्रलोके महीयते
ततः स्वर्गच्युतः कालाद्राजा भवति वीर्यवान् । ततो गच्छेत राजेंद्र इक्षुनद्यास्तु संगमम्
त्रैलोक्ये विश्रुतं दिव्यं तत्र संनिहितः शिवः । तत्र स्नात्वा नरो राजन्गाणपत्यमवाऽप्नुयात्
स्कंदतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् । आजन्मनः कृतं पापं स्नानमात्राद्व्यपोहति
आंगिरसं ततो गच्छेत्स्नानं तत्र समाचरेत् । गोसहस्रफलं तस्य रुद्रलोके महीयते
लांगलतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् । तत्र गत्वा तु राजेंद्र स्नानं तत्र समाचरेत्