महादेवं तथोपास्य त्रयोदश्यां हि मानवः । स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत्
ततो गच्छेत राजेंद्र तीर्थं परमशोभनम् । नराणां पापनाशाय अगस्त्येश्वरमुत्तमम्
तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया । कार्तिकस्य तु मासस्य कृष्णपक्षचतुर्दशी
घृतेन स्नापयेद्देवं समाधिस्थो जितेंद्रियः । एकविंशकुलोपेतो न मुच्येदैश्वरात्पदात्
धेनवोपानहंच्छत्रं तथा दद्याच्च कंबलम् । भोजनं चैव विप्राणां सर्वं कोटिगुणं भवेत्
ततो गच्छेत राजेंद्र रविस्तवमनुत्तमम् । तत्र स्नात्वा नरो राजन्सिंहासनगतिर्भवेत्
नर्मदा दक्षिणे कूले तीर्थं शक्रस्य विश्रुतम् । उपोष्य रजनीमेकां स्नानं तत्र समाचरेत्
स्नानं कृत्वा यथान्यायमर्च्चयेत्तु जनार्दनम् । गोसहस्रफलं तस्य विष्णुलोकं स गच्छति
ऋषितीर्थं ततो गच्छेत्सर्वपापहरं नृणाम् । स्नातमात्रो नरस्तत्र शिवलोके महीयते
नारदस्य च तत्रैव तीर्थं परमशोभनम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत्
देवतीर्थं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा । तत्र स्नात्वा नरो राजन्ब्रह्मलोके महीयते
अमरकंटकं ततो गच्छेदमरस्थापितं पुरा । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत्
ततो गच्छेत राजेंद्र वामनेश्वरमुत्तमम् । तत्र वामनकं दृष्ट्वा मुच्यते ब्रह्महत्यया
ऋषितीर्थं ततो गच्छेदीशानेशं पुमान्ध्रुवम् । वटेश्वरं ततो दृष्ट्वा पर्य्याप्तं जन्मनः फलम्
भीमेश्वरं ततो गच्छेत्सर्वव्याधिविनाशनम् । स्नातमात्रो नरो राजन्सर्वदुःखात्प्रमुच्यते
ततो गच्छेत राजेंद्र वारणेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्सर्वदुःखात्प्रमुच्यते
सोमतीर्थं ततो गच्छेत्पश्येच्चंद्रमनुत्तमम् । तत्र स्नात्वा नरो राजन्भक्त्या परमया युतः
तत्क्षणाद्दिव्यदेहस्थः शिववन्मोदते चिरम् । षष्टिवर्षसहस्राणि शिवलोके महीयते
ततो गच्छेत राजेंद्र पिंगलेश्वरमुत्तमम् । अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात्
तस्मिंस्तीर्थे तु राजेंद्र कपिलां यः प्रयच्छति । यावंति तस्या रोमाणि तत्प्रसूतकुलस्य च
तावद्वर्षसहस्राणि रुद्रलोके महीयते । यस्तुप्राणपरित्यागं तत्र कुर्य्यान्नराधिप
अक्षयं मोदते कालं यावच्चंद्रदिवाकरौ । नर्मदातटमाश्रित्य तिष्ठंति ये तु मानवाः
ते मृताः स्वर्गमायांति तथा सुकृतिनो यथा । सुरभिकेश्वरं गच्छेन्नारकं कोटिकेश्वरम्
गंगावतरणे तत्र दिने पुण्यो न संशयः । नंदितीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्
तुष्यते तं तु नंदीशः सोमलोके महीयते । ततो द्वीपेश्वरं गच्छेद्व्यासतीर्थं तपोवनम्
निवर्तिता पुरा तत्र व्यासभीता महानदी । हुंकारिता तु व्यासेन दक्षिणेन ततो गता
प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । व्यासस्तस्य भवेत्प्रीतो वांछितं लभते फलम्
सूत्रेण वेष्टयेद्यस्तु दीप्तं देवं सवेदिकम् । क्रीडते ह्यक्षयं कालं यथा रुद्रस्तथैव सः
ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् । संगमे तु नरः स्नात्वा मुच्यते सर्वपातकैः
एरंडी त्रिषु लोकेषु विख्याता पापनाशिनी । अथवाश्वयुजे मासे शुक्लपक्षस्य चाष्टमी