चतुर्भुजं महादंष्ट्रं कालरूपं दुरासदम् । सूर्यकोटिप्रतीकाशं यमकोटिदुरासदम् । सिंहवच्च मुखं यस्य नरवच्चांगसंयुतम्
श्रीनृसिंहं दिव्यसिंहं कालरूपं भजेत्सदा । एवं ज्ञात्वा विशेषेण यः स्थानं मामकं व्रजेत्
व्रतं पवित्रं परमं श्रीकदंब प्रदं महत् । अंते मुक्तिप्रदं चैव भक्तानां च न संशयः
येन वै क्रियमाणेन सहस्रद्वादशी फलम् । स्वाती नक्षत्र संयोगे शनिवारे तु मद्व्रतम्
सिद्धियोगस्य संयोगे वणिजे करणे तथा । योगैः सर्वैश्च संयोगं हत्याकोटि विनाशनम्
एतदन्यतरैर्योगे मद्दिनं पापनाशनम् । विज्ञाय मद्दिनं यस्तु लंघयेत्स तु पापकृत्
अकर्त्ता नरकं याति यावच्चंद्र दिवाकरौ । प्राप्ते मम दिने वत्स दंतधावनपूर्वकम्
ममाग्रे व्रतसंकल्पं मद्भक्तो विजितेंद्रियः । अद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय
व्रतस्थेन न कर्त्तव्यं दुष्टसंभाषणादिकम् । ततो मध्याह्नसमये नद्यादौ विमले जले
गृहे वा देवखाते वा तडागे वाथ शोभने । वैदिकेन तु मंत्रेण स्नानं कुर्याद्विचक्षणः 6.174.
मृत्तिका गोमयेनैव तथा धात्रीफलेन च । तिलैश्च विधिवत्स्नायात्सर्वपापौघ शांतये
परिधाय शुभे वस्त्रे नित्यकर्म समारभेत् । ततो गृहं विलिप्याथ कुर्यादष्टदलं शुभम्
कलशं तत्र संस्थाप्य ताम्रंत्रसमन्वितम् । तस्योपरि न्यसेत्पात्रं तंडुलैः परिपूरितम्
हैमीं च तत्र मन्मूर्ति स्थाप्य लक्ष्म्या समन्विताम् । निर्माय शक्त्या स्वर्णेन स्नाप्य पंचामृतैस्ततः
ततो ब्राह्मणमाहूय आचार्यं नातिलोलुपम् । शास्त्रज्ञमग्रतः कृत्वा ततो देवं समर्चयेत्
मंडपं कारयेत्तत्र पुष्पस्तबक शोभितम् । ऋतुकालोद्भवैः पुष्पैः पूज्योऽहं च यथाविधि
उपचारैः षोडशभिर्मंत्रैर्नियमैश्च यः । ततः पौराणिकैर्मंत्रैः पूजनीयो विशेषतः
चंदनं च सकर्पूरं घनकुंकुममिश्रितम् । कालोद्भवानि पुष्पाणि तथा तुलसीदलानि च
श्रीनृसिंहाय यो दद्यात्स मुक्तो नात्र संशयः । कृष्णागुरुमयं धूपं सर्वदा हरिवल्लभम्
हरये गुरवे दद्यात्सर्वकामार्थसिद्धये । महादीपः प्रकर्त्तव्यो ह्यज्ञानध्वांत नाशनः । महानीराजनं कुर्याद्घंटानाद पुरःसरम्
नैवेद्यं शर्करां चापि भक्ष्यभौज्यसमन्वितम् । ददामि ते रमाकांत सर्वपापक्षयं कुरु
नैवेद्य मंत्र। नृसिंहाच्युत देवेश तव जन्मदिने शुभे । उपवासं करिष्यामि सर्वभोगविवर्जितः
तेन प्रीतो भव स्वामिन्पापं जन्म निराकुरु । रात्रौ जागरणं कार्यं गीतवादित्र निःस्वनैः
पुराणपठनं नित्यं श्रीनृसिंकथाश्रयम् । ततः प्रभातसमये स्नानं कृत्वा ह्यनंतरम्
पूर्वोक्तेन विधानेन पूजयेन्मां प्रतर्पयन् । वैष्णवं कारयेच्छ्राद्धं मदग्रे स्वस्थमानसः
ततो दानानि देयानि वक्ष्यमाणानि यान्युत । पात्रेभ्यः स द्विजेभ्यो हि लोकद्वय जिगीषया
सहस्वर्णमयो देवो मम संतोषकारकः । गोभूतिलहिरण्यादि प्रददाति द्विजातये
शय्या सतूलिका देया सप्तधान्यसमन्विता । अन्यानि च यथाशक्त्या देयानि निजशक्तितः
वित्तशाठ्यं न कुर्वीत यथोक्तफलकांक्षया । ब्राह्मणान्भोजयेत्पश्चात्तेभ्यो दद्यात्सुदक्षिणाम्
निर्धनैरपि कर्त्तव्यं देयं शक्त्यनुसारतः । सर्वेषामेव वर्णानामधिकारोऽस्ति मद्व्रते । मद्भक्तैस्तु विशेषेण कर्त्तव्यं मत्परायणैः