कथिता ऋषिसंघेभ्यो ह्यस्माकं च विशेषतः । मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी
रुद्रदेहाद्विनिष्क्रांता लोकानां हितकाम्यया । सर्वपापहरा नित्यं सर्वप्राणिनमस्कृता
संस्तुता देवगंधर्वैरप्सरोभिस्तथैव च । नमः पुण्यजले आद्ये नमः सागरगामिनि
नमोस्तु ते ऋषिगणैः शंकरदेहनिःसृते । नमोस्तु ते धर्मवृते वरानने नमोस्तु ते देवगणैकवंदिते
नमोस्तु ते सर्वपवित्रपावने नमोस्तु ते सर्वजगत्सुपूजिते । यश्चेदं पठते स्तोत्रं नित्यं शुद्धेन मानवः
ब्राह्मणो वेदमाप्नोति क्षत्त्रियो विजयी भवेत् । वैश्यस्तु लभते लाभं शूद्रश्चैव शुभां गतिम्
अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः । नर्मदां सेव्यते नित्यं स्वयं देवो महेश्वरः । तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी
नारद उवाच-। तदाप्रभृति ब्रह्माद्या ऋषयश्च तपोधनाः । सेवंते नर्मदां राजन्कामक्रोधविवर्जिताः
तस्मिन्निपति तं दृष्ट्वा शूलं देवस्य भूतले । तस्य पुण्यं समाख्यातं शंकरेण महात्मना
शूलभेदेति विख्यातं तीर्थं पुण्यतमं महत् । तत्र स्नात्वार्च्चयेद्देवं गोसहस्रफलं लभेत्
त्रिरात्रं कारयेद्यस्तु तस्मिन्तीर्थे नराधिप । अर्चयित्वा महादेवं पुनर्जन्म न विद्यते
भीमेश्वरं ततो गच्छेन्नर्मदेश्वरमुत्तमम् । आदित्येश्वरं महापुण्यं तथाऽज्यमधुना सह
मल्लिकेश्वरमभ्यर्च्य पर्याप्तं जन्मनः फलम् । वरुणेश्वरं ततः पश्येन्नीराजेश्वरमुत्तमम्
सर्वतीर्थफलं तस्य पंचायतनदर्शनात् । ततोगच्छेत राजेंद्र युद्धं वै यत्र साधितम्
कोटितीर्थं तु विख्यातमसुरा यत्र योधिताः । यत्र ते निहता राजन्दानवा बलदर्पिताः
तेषां शिरांसि गृह्यंते निहतास्ते समागताः । तैस्तु संस्थापितो देवः शूलपाणिर्महेश्वरः
कोटिर्विनिहता तत्र तेन कोटीश्वरः स्मृतः । दर्शनात्तस्य तीर्थस्य सदेहः स्वर्गमावहेत्
तदा इंद्रेण क्षुद्रत्वाद्वज्रकीलेन यंत्रितः । तदाप्रभृति लोकानां स्वर्गमत्वं निवारितम्
सघृतं श्रीफलं दत्वा दत्वा चांते प्रदक्षिणम् । सर्वतः सह देवेन शिरसादाय धारयेत् । सर्वकामेन संपूर्णो राजा भवति पांडव
मृतो रुद्रत्वमाप्नोति न चेह जायते पुनः । स्वर्गं गत्वा ततो राज्यं कृत्वागत्य ततो दिवम्
महादेवं तथोपास्य त्रयोदश्यां हि मानवः । स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत्
ततो गच्छेत राजेंद्र तीर्थं परमशोभनम् । नराणां पापनाशाय अगस्त्येश्वरमुत्तमम्
तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया । कार्तिकस्य तु मासस्य कृष्णपक्षचतुर्दशी
घृतेन स्नापयेद्देवं समाधिस्थो जितेंद्रियः । एकविंशकुलोपेतो न मुच्येदैश्वरात्पदात्
धेनवोपानहंच्छत्रं तथा दद्याच्च कंबलम् । भोजनं चैव विप्राणां सर्वं कोटिगुणं भवेत्
ततो गच्छेत राजेंद्र रविस्तवमनुत्तमम् । तत्र स्नात्वा नरो राजन्सिंहासनगतिर्भवेत्
नर्मदा दक्षिणे कूले तीर्थं शक्रस्य विश्रुतम् । उपोष्य रजनीमेकां स्नानं तत्र समाचरेत्
स्नानं कृत्वा यथान्यायमर्च्चयेत्तु जनार्दनम् । गोसहस्रफलं तस्य विष्णुलोकं स गच्छति
ऋषितीर्थं ततो गच्छेत्सर्वपापहरं नृणाम् । स्नातमात्रो नरस्तत्र शिवलोके महीयते
नारदस्य च तत्रैव तीर्थं परमशोभनम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत्