एकं निपातितं तस्य श्रीशैले त्रिपुरांतके । द्वितीयं पातितं तत्र पर्वतेऽमरकंटके
दग्धे तु त्रिपुरे राजन्रुद्रकोटिः प्रतिष्ठिता । ज्वलंतं पातितं तत्र तेन ज्वालेश्वरः स्मृतः
ऊर्ध्वेन प्रस्थिता तस्य दिव्या ज्वाला दिवं गता । हाहाकारस्तदा जातो सदेवासुरकिंनरान्
तं शरं स्तंभयेद्रुद्रो माहेश्वरपुरोत्तमे । एवं व्रजेत यस्तस्मिन्पर्वतेऽमरकंटके
चतुर्द्दशभुवनानि सुभुक्त्वा पांडुनंदन । वर्षकोटिसहस्रं तु त्रिंशत्कोट्यस्तथा पराः
ततो महीतलं प्राप्य राजा भवति धार्मिकः । पृथिव्यामेकच्छत्रेण भुंक्ते नास्त्यत्र संशयः
एष पुण्यो महाराज सर्वतोऽमरकंटकः । चंद्र सूर्योपरागेषु गच्छेद्योऽमरकंटकम्
अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः । स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरम्
संनिहत्या गमिष्यंति राहुग्रस्ते दिवाकरे । तदेव निखिलं पुण्यं पर्वतेऽमरकंटके
पुंडरीकस्य यज्ञस्य फलं प्राप्नोति मानवः । तत्र ज्वालेश्वरो नाम पर्वतेऽमरकंटके
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः । ज्वालेश्वरे महाराज यस्तु प्राणान्परित्यजेत्
चंद्र सूर्योपरागे तु भक्त्यापि शृणु तत्फलम् । अमरा नाम देवास्ते पर्वतेऽमरकंटके
रुद्रलोकमवाप्नोति यावदाभूतसंप्लवम् । अमरेश्वरस्य देवस्य पर्वतस्य तटे जले
कोटिश ऋषिमुख्यास्ते तपस्तप्यंति सुव्रताः । समंताद्योजनं राजन्क्षेत्रं चामरकंटकम्
अकामो वा सकामो वा नर्मदायां शुभे जले । स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं स गच्छति
नारद उवाच- उत्तरे नर्मदाकूले तीर्थं योजनविस्तृतम् । पत्रेश्वरेति विख्यातं सर्वपापहरं परम्
तत्र स्नात्वा नरो राजन्दैवतैः सह मोदते । पंचवर्षसहस्राणि क्रीडते कामरूपधृक्
गर्जनं तु ततो गच्छेद्यत्र मेघ उपस्थितः । इंद्रजिन्नाम संप्राप्तं तस्य तीर्थप्रभावतः
मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितम् । मेघनादो गणस्तत्र वरसंपन्नतां गतः
ततो गच्छेत राजेंद्र ब्रह्मावर्तमिति स्मृतम् । तत्र संनिहितो ब्रह्मा नित्यमेव युधिष्ठिर
तत्र स्नात्वा तु राजेंद्र ब्रह्मलोके महीयते । ततोंऽगारेश्वरे तीर्थे नियतो नियमाशनः
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति । ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्गोप्रदानफलं लभेत् । कांचीतीर्थं ततो गच्छेद्देवर्षिगणसेवितम्
तत्र स्नात्वा नरो राजन्गोलोकं समवाप्नुयात् । ततो गच्छेत्तु राजेंद्र कुंडलेश्वरमुत्तमम्
तत्र संनिहितो रुद्रस्तिष्ठते उमया सह । तत्र स्नात्वा तु राजेंद्र अवध्यस्त्रिदशैरपि
पिप्पलेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम् । तत्र गत्वा तु राजेंद्र रुद्रलोके महीयते
ततो गच्छेत्तु राजेंद्र विमलं विमलेश्वरम् । तत्र देवशिखा रम्या ईश्वरेण निपातिता
तत्र प्राणान्परित्यज्य रुद्रलोकमवाप्नुयाम् । ततः पुष्करिणीं गच्छेत्तत्र स्नानं समाचरेत्
स्नानमात्रे नरस्तत्र इंद्रस्यार्द्धासनं लभेत् । नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता
तारयेत्सर्वभूतानि स्थावराणि चराणि च । सर्वदेवातिदेवेन ईश्वरेण महात्मना