तस्मिन्क्षेत्रे तु विख्यातो ब्राह्मणो वेदपारगः । हारीत इति नाम्ना च ज्ञानध्यानपरायणः
तस्य स्त्री तु महापुण्या सतीरूपा सदा प्रभो । लीलावती तु नाम्ना च भर्तुर्वशपरा सदा
ताभ्यां तपो महत्तप्तं कालं बहुतरं सुत । एकविंशयुगाश्चैव यातास्तत्र न संशयः । तस्मिन्क्षेत्रे तु वै ताभ्यां प्रत्यक्षो वाभवत्तदा
नृसिंह उवाच। यं यं वांछयसे ब्रह्मंस्तं ददामि न संशयः । ताभ्यामुक्तं तदा तस्मै दीयते चेद्वरो मम
त्वादृशो मम पुत्रस्तु ह्यधुनैव भवत्विति । मयोक्तं तु तदा वत्स पुत्रोऽहं ते न संशयः
विश्वकर्मा ह्यहं साक्षात्परमात्मा परात्परः । उदरेऽहं न वत्स्यामि यतोऽहं वै सनातनः
हारीतेन तदा चोक्तं भवत्वेवं न संशयः । तदाप्रभृति वै क्षेत्रे स्थितोऽहं भक्तकारणात्
अत्रागत्य प्रकुर्वीत दर्शनं भक्तसत्तमः । तस्याहं सकलां बाधां नाशयामि निरंतरम्
एतस्मात्कारणाच्चैव व्रतं वै विधिपूर्वकम् । ये कुर्वंति नरश्रेष्ठा न तेषां विद्यते भयम्
बालरूपमयं ध्यात्वा ताभ्यां सह विशेषतः । पूजनं कुरुते रात्रौ स वै नारायणो भवेत्
चतुर्भुजं महादंष्ट्रं कालरूपं दुरासदम् । सूर्यकोटिप्रतीकाशं यमकोटिदुरासदम् । सिंहवच्च मुखं यस्य नरवच्चांगसंयुतम्
श्रीनृसिंहं दिव्यसिंहं कालरूपं भजेत्सदा । एवं ज्ञात्वा विशेषेण यः स्थानं मामकं व्रजेत्
व्रतं पवित्रं परमं श्रीकदंब प्रदं महत् । अंते मुक्तिप्रदं चैव भक्तानां च न संशयः
येन वै क्रियमाणेन सहस्रद्वादशी फलम् । स्वाती नक्षत्र संयोगे शनिवारे तु मद्व्रतम्
सिद्धियोगस्य संयोगे वणिजे करणे तथा । योगैः सर्वैश्च संयोगं हत्याकोटि विनाशनम्
एतदन्यतरैर्योगे मद्दिनं पापनाशनम् । विज्ञाय मद्दिनं यस्तु लंघयेत्स तु पापकृत्
अकर्त्ता नरकं याति यावच्चंद्र दिवाकरौ । प्राप्ते मम दिने वत्स दंतधावनपूर्वकम्
ममाग्रे व्रतसंकल्पं मद्भक्तो विजितेंद्रियः । अद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय
व्रतस्थेन न कर्त्तव्यं दुष्टसंभाषणादिकम् । ततो मध्याह्नसमये नद्यादौ विमले जले
गृहे वा देवखाते वा तडागे वाथ शोभने । वैदिकेन तु मंत्रेण स्नानं कुर्याद्विचक्षणः 6.174.
मृत्तिका गोमयेनैव तथा धात्रीफलेन च । तिलैश्च विधिवत्स्नायात्सर्वपापौघ शांतये
परिधाय शुभे वस्त्रे नित्यकर्म समारभेत् । ततो गृहं विलिप्याथ कुर्यादष्टदलं शुभम्
कलशं तत्र संस्थाप्य ताम्रंत्रसमन्वितम् । तस्योपरि न्यसेत्पात्रं तंडुलैः परिपूरितम्
हैमीं च तत्र मन्मूर्ति स्थाप्य लक्ष्म्या समन्विताम् । निर्माय शक्त्या स्वर्णेन स्नाप्य पंचामृतैस्ततः
ततो ब्राह्मणमाहूय आचार्यं नातिलोलुपम् । शास्त्रज्ञमग्रतः कृत्वा ततो देवं समर्चयेत्
मंडपं कारयेत्तत्र पुष्पस्तबक शोभितम् । ऋतुकालोद्भवैः पुष्पैः पूज्योऽहं च यथाविधि
उपचारैः षोडशभिर्मंत्रैर्नियमैश्च यः । ततः पौराणिकैर्मंत्रैः पूजनीयो विशेषतः
चंदनं च सकर्पूरं घनकुंकुममिश्रितम् । कालोद्भवानि पुष्पाणि तथा तुलसीदलानि च
श्रीनृसिंहाय यो दद्यात्स मुक्तो नात्र संशयः । कृष्णागुरुमयं धूपं सर्वदा हरिवल्लभम्
हरये गुरवे दद्यात्सर्वकामार्थसिद्धये । महादीपः प्रकर्त्तव्यो ह्यज्ञानध्वांत नाशनः । महानीराजनं कुर्याद्घंटानाद पुरःसरम्