अनौपम्योवाच-। भगवन्मानुषे लोके देवास्तुष्यंति केन वै । व्रतेन नियमेनापि दानेन तपसाथवा
नारद उवाच-। तिलधेनुं च यो दद्याद्ब्राह्मणे वेदपारगे । ससागरा नवद्वीपा दत्ता भवति मेदिनी
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः । मोदते चाक्षयं कालं सुचिरं कृतशासनः
आम्रातककपित्थानि कदलीवनमेव च । कदंब चंपकाशोका अनेक विविधद्रुमाः
अष्टमी च चतुर्थी च द्वादशी च तथा उभे । संक्रांतिर्विषुवं चैव दिनच्छिद्रमुखं तथा
पुण्यान्येतानि सर्वाणि उपवासंति याः स्त्रियः । तासां तु धर्म्मयुक्तानां स्वर्गे वासो न संशयः
कलिकालात्तु निर्मुक्ताः सर्वपापविवर्जिताः । उपवासरता नार्यो नोपसर्पंति तापसाः
एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि । नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत्
प्रसादं कुरु विप्रेंद्र दानं गृह्ण यथेप्सितम् । सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च
तत्ते दास्याम्यहं विप्र यच्चान्यदपि दुर्ल्लभम् । प्रतिगृह्ण द्विजश्रेष्ठ प्रीयेतां हरिशंकरौ
नारद उवाच-। अन्यस्मै दीयतां भद्रे क्षीणवृतिश्च यो द्विजः । वयं तु शीलसंपन्ना भक्तिस्तु क्रियते मया
एवं तासां मनो हृत्वा सर्वासामुपदिश्य वा । जगाम भरतश्रेष्ठ स्वकीयं स्थानकं पुनः
अत्राकृष्टमनास्तास्तु अन्यत्रगतमानसाः । पुरि छिद्रं समुत्पन्नं बाणस्य तु महात्मनः
नारद उवाच- यन्मां पृच्छसि कौंतेय तन्निबोध च तच्छृणु । एतस्मिन्नंतरे रुद्रो नर्मदातटमास्थितः
नाम्ना हरेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम् । तस्मिन्स्थाने महादेवश्चिंतयंस्त्रैपुरं वधम्
गां(गा?)डीवं मंदरं कृत्वा गुणं कृत्वा तु वासुकिम् । स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम्
अग्रे चाग्निं प्रतिष्ठाप्य मुखे वायुः समर्पितः । हयाश्च चतुरो वेदाः सर्वदेवमयं रथम्
चक्रगौ चाश्विनौ देवावक्षं चक्रधरः स्वयम् । स्वयमिंद्रश्च चापांते बाणे वैश्रवणः स्थितः
यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः । चक्राणामारके न्यस्ता गंधर्वा लोकविश्रुताः
प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः । एवं कृत्वा तु देवेशः सर्वदेवमयं रथम्
सोतिष्ठत्स्थाणुभूतो हि सहस्रं परिवत्सरान् । यदा त्रीणि समेतानि अंतरिक्षचराणि च
त्रिपुराणि त्रिशल्येन तदा तानि बिभेद सः । शरः प्रचोदितस्तत्र रुद्रेण त्रिपुरं प्रति
भ्रष्टतेजा स्त्रियो जाता बलं तेषां व्यशीर्यत । उत्पाताश्च पुरे तस्मिन्प्रादुर्भूता सहस्रशः
त्रिपुरस्य विनाशाय कालरूपोभवत्तदा । अट्टहासं प्रमुंचंति रूपाः काष्ठमयास्तथा
निमेषोन्मेषणं चैव कुर्वंति चित्रकर्मणा । स्वप्ने पश्यंति चात्मानं रक्तांबरविभूषितम्
स्वप्ने पश्यंति ते चैवं विपरीतानि यानि तु । एतान्पश्यति उत्पातांस्तत्र स्थाने तु ये जनाः
तेषां बलं च बुद्धिश्च हरक्रोधेन नाशितम् । संवर्तको नाम वायुर्युगांतप्रतिमो महान्
समीरितोनलश्रेष्ठ उत्तमांगेषु बाधते । ज्वलंति पादपास्तत्र पतंति शिखराणि च
सर्वं तद्व्याकुलीभूतं हाहाकारमचेतनम् । भग्नोद्यानानि सर्वाणि क्षिप्रं तु प्रज्वलंति च
तेनैव दीपितं सर्वं ज्वलते विशिखैः शिखैः । द्रुमा आरामगंडानि गृहाणि विविधानि च